________________
या' इति, कोलवाले शूकरकन्धरा केशरूपे प्रोतना प्रवेशनम् । मौक्तिकप्रोतका हि सिद्धतत्क्रिया अधस्तादूर्ध्वमुखं क्रोटकेशं वृत्या उर्ध्वमुखं तथा मौक्तिकं क्षिपन्ति यथा नूनं तत्र प्रवेशं लभत इति । तथा घृतशकटारूढस्यापि निपुणवणिजः, 'एत्तोचिय'त्ति, अत एवाभ्यासादेव कुतपे धारा घृतप्रवाहरूपा उपरिष्टाद् मुक्तवतोऽपि निपतति ॥ २४ ॥
| पत्रए तरंडचागा सम्मं तरणं नहम्मि वा एयं । तुण्णाए पुण तुण्णण मणायसंधिं दुयं चैव ॥ २५ ॥
शुत्रकस्तारकस्तरका उत्यागान्नदीसरोवरादिजलेषु सम्यक् स्वयमनुन्नेव तरणं प्लवनं नभसि वा आकाशे तत्तरणमभ्यासात् करोति । 'तुनाए' इति तुन्नावायस्तुटितवस्त्रादिसंधानकारी पुनः 'तुणण्ण' त्ति तुण्णणं वस्त्रसंधानं अज्ञातसंधि परैरनुपलक्षितविभागं सुतं चैव शीघ्रमेवाभ्यासात् करोति, यथा भगवतः स्कन्धवस्त्रस्यः - तथाहि - भगवान् महावीर : सांवत्सरि| कदान पूर्व प्रतिपन्नव्रतस्तत्कालमेव शक्रारोपितस्कन्धप्रदेश देवदृष्यः कुण्डग्रामाद् वहिर्देशे विहरन् दानकालासन्निहित गृहस्थपर्याय मित्रत्राह्मणेनागत्य प्रार्थनयोपरुद्धः सन् तस्मै देवदूष्यार्द्ध ददौ । साधिकवर्पान्ते च सुवर्णवालुकानदीतटप्ररूढवृक्षकण्टकाक्षेपाद भूमौ पपात द्वितीयमर्द्धम् गृहीतं च तत्तेनैव पृष्ठलग्नेन ब्राह्मणेन । समर्पितं च खण्ड द्वितयमपि तुन्नवायस्य । तेनापि तथा तदज्ञातसंधि योजितं यथा लब्धप्राच्यलक्षप्रमाणमूल्यं संजातमिति ॥ २५ ॥
| वड्ढडुरहाइ दारुगपमाणणाणमह वेहदक्खत्तं । एमेव इयम्मिवि मासाइदले मुणेयव्वं ॥ २६ ॥ वर्द्धके रथकारस्य स्थादिदारुकप्रमाणज्ञानं रथादेः रथशिविकायानयुग्यादेर्घटयितुमारब्धस्य दारुकाणां काष्ठानां