________________
शपदे
है नागरिकास्तैः परिमितकालव्यवधानेन सुवर्ण द्विगुणत्रिगुणादिलाभमुत्प्रेक्षमाणैर्यथा-"दण्डमूल्यप्रमाणं भवतां विभज्य गणितट्टा श्रीउपदे
सुवर्ण राज्ञो दातुमुचितं, स्वल्पकालादेव तच्च तत्तुल्यरूपमेव द्रव्यं यथा हस्ते भवतां चटिष्यते तथा विधास्यते, न कश्चिदसंतोपो विधेयः" । दत्तं च तत्तैः कालान्तरे चमहर्षीभूतं विक्रीय कारणिकैस्तद्विगुणादिलाभो राजभाण्डागारे निक्षिप्तः,
मूलधनं च तेषामेव समर्पितमिति । अन्ये स्वित्युनुवर्तते;-राज्यचिन्तकानां कुटुम्बचिन्तकानां च प्रस्तुतबुद्धिप्रधानानां है २ पुरुषाणां राज्येषु कुटुम्बेषु च आयस्यापूर्वधनलाभलक्षणस्य व्ययस्य च लब्धधनविनियोगरूपस्य या चिन्ता सा ज्ञातम् । ६ तथेति ज्ञातान्तरसमुच्चथार्थः। मतिमन्तो हि ताम्रालुकावदायव्यययोः प्रवर्तन्ते; तथाहि-ताम्नालुका घृतजलादिमुत्क-%
लेन मुखेन गृह्णाति, व्ययं चातिसंकीर्णमुखेन नालकेन करोति, यतो बहुळयकालोऽल्पश्चायकालः, इतीत्थमेव व्यवहरतां सांगत्यमुत्पद्यते इति । अन्ये तु हृतभौताचार्यसंख्या प्रस्तुतबुद्धिविषयतया वर्तते इति व्याख्यान्ति; यथा-केनचित्कृपालुना केचिद्भौताचार्याः कांचिद्गम्भीरजलां सरितमुत्तरन्तो जलपूरेण ह्रियमाणाः समुत्तारिताः। तेषां च प्रागेव समवधारितदशादिप्रमाणं स्वसंख्यानां समकालमेव जडत्वेनात्मानं विमुच्य परिगणयितुमारब्धानां यदा प्राक्कृतंसख्या न पूर्यते
तदा सविषादमुखास्ते विलपितुमारब्धाः; यथा-एकोऽस्मासु नदीपूरेण हृत इति । भणिताश्च ते संप्रति समीपवर्त्तिना 6 केनचित् , यथा-भो भवतामात्मा विस्मृतो यदेवं गणनमारब्धमिति ॥१०॥ है कूवे सिराइणाणं तुल्ले तत्थवि तिरिच्छमाहणणं । अण्णे णिहाणसंपत्तुवायमोविंति एयं तु ॥ ११ ॥
कूप इति द्वारपरामर्शः। शिराया जलोद्गमप्रवाहरूपाया ज्ञानमवगमः कथमित्याह-भूमिमध्यगततथाविधकूपकारा