________________
|तनो राजोपालम्भभीरुणा उपाध्यायेन 'चट्टक्खेडेणमक्खरालिहणंति' वृत्तानां खटिकामयगोलकानां खेलनं क्रीडनं तैः म. कृतम् । तेन चाक्षरपातानुरूपतद्गोलकप्रतिविम्बद्वारेणाक्षराणामकारादीनामालेखनं कारितास्ते, ते हि यदा शिक्ष्य-8 माणा अपि न शिक्षामाद्रियन्ते तत उपाध्यायेन तत्क्रीडनकमेवानुवर्तमानेन तथा गोलकपातं शिक्षितं यथा भूमावक्ष
राणि ममुत्पन्नानीति । यद्वा 'पिडिम्मि'त्ति भूर्यपृष्ठादौ लिखितानामक्षराणां यद्वाचनं तद् वैनयिकी बुद्धिः। तथाक्षरविंद्वापादिच्युतज्ञानं अक्षरस्य वर्णरूपस्य विन्दोः प्रसिद्धस्यैवादिशब्दान्मात्रायाः पदादेश्च च्युतस्य पत्रादवलिखितस्य यज्ज्ञानं तदपि बनयिकी। तत्राक्षरस्य च्युतं यथा-"गोमायोर्वदरैः पक्वैर्यःप्रदो विधीयते । स तस्य स्वर्गलाभेऽपि मन्ये न स्यात् कदाचन ॥२॥" विन्दुच्युतं यथा-"सोप्माणं कोमलं नव्यं जनः शीतनिपीडितः। हिमावी हते को न कबलं मार्गमाश्रितः? ॥१॥” इति ॥९॥ गणिए य अंकणासो अण्णे उसुवण्णजायणं दंडे । आयव्वयचिंता तह अपणे उहियायरियसंखा ॥१०॥
गणिते चेति द्वारपरामर्शः इह च चत्वार्युदाहरणानि, तद्यथा-अङ्कनाशः(१), सुवर्णयाचनं (२), आयव्ययचिन्ता (३), हुना भौताचार्याश्चेति (४). तत्राकनाशः संपन्नः पुनर्लब्धः सज्ञातम् ; द्यूतकाराणां द्यूतं रममाणानां तल्लेख्यकं च कुर्वतां यदा कुतोऽपि दुष्प्रयोगात् कस्यचिदस्य नाशो भवति तदा प्रस्तुतबुद्धिवशेन तेपां पुनरप्यसावुन्मीलतीति अन्ये तु जयते-र्णयाचनं चामीकरप्रार्थनं दण्डे राजसंवन्धिनि सर्वनगरसाधारणे पतिते सति ज्ञातम्-किल क्वचिन्नगरे केनचिन्नरनाथेन दण्टः पातितः, कारणिकैश्च चिन्तितं, मा लोक उद्विजतामिति व्युत्पत्त्यासौ ग्राह्यः ततो भणिता