________________
श्रीउपदेशपदे
'कप्पग'गाथाक्षरा
गम्यते केनेत्याह-'गंडाइछेयभेयणया' इति गण्डादिच्छेदभेदनेन गण्डादीनामिक्षुयष्टिकलापरूपाणामादिशब्दाधिभाण्डस्य च यथाक्रममुपर्यधस्ताच्च च्छेदेन भेदनेन च प्रतिपक्षमहितप्रधानपुरुषस्य मतिमोहसंपादकेनोपन्यस्तेनेति यक्षप्रयुक्तिः सुरप्रिययक्षवार्ता उक्तलक्षणा ज्ञातम् । कथमित्याह-'किच्चपओय अहवा सरावम्मि'त्ति-कृत्याया नागरिकलोकक्षयलक्षणायाः प्रयोग उपशमनोपायव्यापाररूपः अथवा यदिवा, क्व सतीत्याह-शरावे मल्लके उपलक्षणत्वात् कलशकुर्चिकावर्णिकादौ च प्रत्यग्रे चित्रकरदारकेण यो मल्लकादौ नूतने विहिते सति यक्षोपशमनोपाय उपलब्धः स चात्र ज्ञातमिति भावः। अत्र चार्थशास्त्रत्वभावनैवम् ;-परो ह्यवशीभूतः सामादिभिनीतिभेदैः सम्यक्प्रयुक्तैर्ग्रहीतव्यः, यथा"-अधीष्व पुत्रक! प्रातर्दास्यामि तव मोदकान् । तान् वान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते ॥१॥ इति । साम च चित्रकरदारकप्रयुक्तो विनय इति ॥८॥
लेहे लिवीविहाणं वदृक्खेड्डेणमक्खरालिहणं । पिट्ठिम्मि लिहियवायण मक्खरविंदाइ चुयणाणं ॥९॥ 5 लेख इति द्वारोपक्षेपः। तत्र लिपिविधानं लिपिभेदो ज्ञातम् । तच्चाष्टादशधा,-"हंसलिवी भूयलिवी जक्खी तह र रक्खसीय बोद्धवा । उडी जवणि फुडुक्की कीडी दविडी य सिंधविया ॥१॥ मालविणी नडि नागरि लाडलिवी पारसी य
बोद्धबा। तह अनिमित्ताणेया चाणक्की मूलदेवी य ॥२॥ तद्देशप्रसिद्धाश्चैताः। तत्र किल केनचिद्राज्ञा कस्यचिदुपाध्यायस्य 5 निजपुत्रा लिपिशिक्षणार्थं समर्पिताः ते च दुर्ललिततया आत्मानं नियन्त्र्य न शिक्षितुमुत्सहन्ते, अपि तु क्रीडन्त्येव ।
क अधीष्व भो पुत्रक!
ह