________________
131"यः कश्चिदपर्व किंचन मां श्रावयति तस्याहं खोरकं लक्षद्रव्यमूल्यं कच्चोलकमिदं ददामि" एवं च लोक डम्भयितुमा
रब्धः, यतो यः कश्चिदभिनवकाव्यादि श्रावयति तत्रापि स "पूर्वमेतन्मे" इति मिथ्योत्तरं कृत्वा तं विलक्षीकरोति ।
प्रवर्तितश्चात्मनि प्रवादो यथाऽहं सर्वश्रुतपारग इति । श्रुतश्चैप वृत्तान्तस्तत्रस्थेनैकेन सिद्धपुत्रेण । तत्कालोपन्नबुद्धिना पितेन तदग्रतो भूत्वा पठितं, यथा-"तुज्झ पिया मह पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुवं दिजउ अह मन मुयं खोरयं देहि"। एवमनेन प्रकारेण तदन्यधूर्तेण सिद्धपुत्ररूपेण च्छलना बुद्धिपरिभवरूपा तस्य कृतेति ।।१०६॥
॥समाप्तान्योत्पत्तिकीवुद्धिज्ञातानि ॥
॥ नमः श्रुतदेवतायै ॥ अथ वैनयिकीज्ञातानि विवियन्ते:वेणइयाइ निमित्ते सिद्धसुया हत्थिपय विसेसोत्ति । मुविणिदाहिणपुत्ते थेरी तज्जायणाणादी ॥७॥
वनयिक्या बुद्धी निमित्ते इति द्वारपरामर्शः। 'सिद्धसुय'त्ति कस्यचित् सिद्धपुत्रस्य पार्श्वे द्वौ सुतौ, "पुत्ता य सीसा 5 साय समं विहत्ता" इति वचनात् शिष्यावित्यर्थः, निमित्तशास्त्रं शिक्षितौ, अन्यदा च तृणकाष्ठाद्यर्थमटव्यां प्रविष्टी। ह
टानि च ताभ्यां तत्र 'हत्थिपय विसेसोत्ति'-हस्तिपदानि, आदिष्टश्चैकेन विशेषो, यथा-हस्तिन्या एवैतानि । कथं ज्ञायते इति चेत् ? कायिकोत्सर्गविशेषात् । सा च काणा, एकपार्थेन तृणानां खादनादिति । तथा 'गुविणिदाहिणपुत्त'त्ति तरच कायिकोत्सर्गविशेपादेव एका स्त्रीपुरुपश्च विलग्न इति ज्ञायते । पीवरगर्भाच सा, भूमौ हस्तस्तम्भनेनोत्थानात् ।