________________
'
श्रीउपदेशपदे
'इच्छा 'शतसा
द्वा०
॥ ७१॥
RRESEARS
₹ इच्छाइ महं रंडा पइरिण तम्मित्तसाहुववहारे । मंतिपरिच्छा दोभाग तयणु अप्पस्स गाहणया॥५॥ ___ 'इच्छाइ महति द्वारपरामर्शः। किल क्वचिन्नगरे कस्यचित्कुलपुत्रकस्य पत्नी भर्तृमरणे 'रंडे'ति वैधव्यमनुप्राप्ता । सा च 'पइरिण'त्ति पत्युभर्तुः संवन्धि यद्दत्तिप्रयुक्तं धनं लोकस्य च देयत्वेन ऋणतया संपन्नं तद्ग्राहयितुमारब्धा । न चासौ किंचिल्लभते, सर्वपुरुषापेक्षत्वात्सर्वलभ्यानाम् । भणितं च तया तस्य पत्युमित्रं यथोग्रायाधमर्णलोकाद् मे वित्तम् । भणितं च तेन–'कोऽत्र मे भागः?' तया च सरलस्वभावमवलम्ब्य निगदितम्-'उद्ग्राहय तावत् पश्चाद्यत्ते रोचते तन्मे दद्यास्त्वम्' इति । उद्ग्राहितं च तेन तत्सर्वम् । भागवेलायां च 'असाहुत्ति असाधौ वञ्चके तुच्छभागदानात्तस्मिन् संपन्ने व्यवहारो राजद्वारि प्रवृत्तः। लब्धवृत्तान्तेन च 'मंतिपरिच्छा' इति मंन्त्रिणा परीक्षार्थ पृच्छा कृता-कीदृशं त्वं भागमिच्छसि ?" स प्राह महान्तम् । ततो द्रव्यस्य द्वौ भागौ कृतौ अल्पो महांश्च । तदन्वल्पस्य भागस्य गाहणयत्ति अल्पं भागं ग्राहित इत्यर्थः । किलानया प्रागेवेदमुक्तमास्ते यस्ते रोचते स भागो मे दातव्यः, रोचते च ते महानित्ययमेवास्या दातुमुचित इति, प्रतिपन्ननिर्वाहित्वाच्छिष्टानाम् । यतः पठ्यते; "अलसायंतेणवि सजणेण जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरियव न हु अन्नहा हुंति ॥” ॥५॥ सयसाहस्सी धुत्तो अपुवखोरम्मि लोगडंभणया । तुज्झ पिया मज्झेवं तदण्णधुत्तेण छलणत्ति ॥६॥ सयसहसत्ति द्वारे शतसहस्री लक्षप्रमाणधनवान् कश्चिद्धतः समासीत् । तेन च 'अउबखोरम्मि लोगडंभणया' इति
॥७१॥
ॐ