________________
श्रीउपदेशपदे
॥ ७० ॥
षिताश्च ते पिण्डाः, भणितश्च स्वजनलोक:, यथाऽहं नद्यां गोमय पिण्डकान् मध्यसंगोपितार्थान् प्रक्षेप्स्यामि, भवद्भिश्च ते तरन्तो ग्राह्या इति । ततोऽसावस्माकं कुले स्थितिनतिरीतिरेषा इत्युक्त्वा तिथिषु पर्वदिवसेषु च तैर्दारकैः समं तान् नद्यां निक्षिपति । निर्वाहितश्चानेनोपायेन सर्वोऽप्यर्थः ' तत्तो अवक्रमणं'ति तत एवं कृतेऽपक्रमणं ततः स्थानाल्लब्धावसरेण तेन गमनं कृतमिति ॥ २ ॥
अत्थे बालदुमाया ववहारे देविपुत्तकालोत्ति । अण्णे उ धाउवाइयजोगो सिद्धीइ निवणाणं ॥ ३ ॥
अर्थ इति द्वारपरामर्शः । 'बालदुमाया' इति कस्यचिद्वालस्य द्वौ मातरावभूतां । पिता च मृतः । 'ववहारे' इति संपन्नश्च द्वयोरपि जनन्योर्विवादः न चान्यः कोऽपि तत्र साक्षी समस्ति, दूरदेशान्तरादागतत्वात्तयोः ततो राजद्वारे उपस्थिते ते । ‘देविपुत्तकालो'त्ति । तत्र च पट्टमहादेवी गर्भवती श्रुतश्च तयैष वृत्तान्तः उपायान्तरं चापश्यन्त्या प्रतिपादिते यथा ममैष गर्भे यः पुत्र उत्पत्स्यते, सोऽशोकपादपस्याध उपविष्टो व्यवहारं भवत्योः छेत्स्यतीति । तावन्तं च कालं यावद् भवतीभ्यां संतुष्टमानसाभ्यां उचितान्नपानवस्त्रादिभोगपराभ्यां च स्थातव्यम् । तुष्टा च सपली यथा लब्धस्तावदियान् कालः, पश्चात्किं भविष्यतीति को जानीत इति । ज्ञातं च यथावस्थितं देव्या तदीयहर्षावलोकनात् । निर्घाटिता चासौ । समर्पितश्च स्वजनन्या एव पुत्रोऽर्थश्चेति । अन्ये त्वाचार्या एवं ब्रुवते, यथा- ' धाउवाइयजोगो सिद्धीइ निवणणं' इति । कैश्चिद् धातुवादिकैः क्वचित् पर्वतनिकुञ्जे सर्वः सुवर्णसिद्धिसंयोगो विहितः न च सुवर्णसिद्धिः संपद्यते विषन्नाश्वासते ते यावत्, तावदत्रान्तरे प्रागेव शैलासन्नं निवेशित कटकसन्निवेशाद्रात्रौ ज्वलन्तं ज्वलनमवलोक्य कौतुकेन राजा
'शिक्षा' 'अर्थ'
द्वा०
॥ ७० ॥