________________
कमित्रस्य प्रतिविम्बं मृन्मयं निजगृहमध्ये तेन कारितम्, तन्मस्तके च नित्यमसौ भक्तं मुञ्चति । द्वौ च वानरौ | तन्मम्तकोपरि भक्तं ग्राहयति । तदभ्यासौ च तौ संजातौ । अन्यदा च तथाविधोत्सवप्रवृत्तौ निमन्त्रणा भोजननिमित्तं वयस्यचेङकयोः कृता । गोपितौ च तौ तेन । न समर्पयति च पितुः । उत्तरं च कुरुते - " किं मन्दभाग्या वयं कुर्मः, येन पश्यत एव मे त्वत्सुतौ वानरौ जातौ' । अश्रद्दधानश्च तद्गृहमागतः उपवेशितो लेप्यस्थाने अग्रत एव प्रसारिततत्प्रतिविम्बेन तेन । मुक्तौ च वानरौ किलकिलारावं कुर्वाणावारूढौ तच्छिरसि । भणितञ्च स तेन यथाऽपुण्यैर्निधिः परावृत्तः, तथैतावपि त्वत्पुत्राविति । ज्ञातं च तेन ' शठं प्रति शठं ( शाठ्यं) कुर्यात्' इति वचनमनुष्ठितमेतेन तदनु दत्तो निधिभागः । प्रतिममर्पितावितरेणापि पुत्राविति ॥ १ ॥
सिक्खा य दारपाढे बहुलाहऽवरत्तमारसंवाए । गोमयपिंडणदीए ठितित्ति तत्तो अवकमणं ॥ २ ॥
शिक्षा चेति द्वारपरामर्शः । शिक्षा चात्र धनुर्वेदविषयोऽभ्यासः । तत्र चैकः कुलपुत्रको धनुर्वेदाभ्यासकुशलः पृथ्वीतलनिभालन कौतुहलेन परिभ्राम्यन् क्वचिन्नगरे कस्यचिदीश्वरस्य गृहमवतीर्णः । गृहस्वामिना च सप्रणयं परिपूज्य 'दारपाढे' इति स्वकीयदारकपाठे नियुक्तः । तस्य च तान् पाठयतो बहुलभः संपन्नः । ततः 'अवरत्तमारसंवाए' इति । अपरक्तेन दारकपित्रा तदीयार्थलाभच्छेदनार्थं मारो मरणं संकल्पितं यथा केनाप्युपायेनामुं निर्गमनकाले मारयित्वाऽर्थो ग्रहीष्यत इति । न लभते चासौ गृहान्निर्गन्तुम् । संपादितश्चासौ तेन निजस्वजनानां वृत्तान्तः, यथा - नूनमयं मां मारयितुमभिवाञ्छतीति । तदनु च 'गोमयपिंड नईए ठिइत्ति'त्ति गोमयपिंडेषु सर्वोऽपि निजोऽर्थः संचारितस्तेन । शो