________________
: -
गच्छन् कौतुकेन तदर्शनार्थं देवकुलगर्भगृहे प्रविशति यदा चासौ तद्द्वारि पादनिक्षेपं करोति तदा 'उट्ठाणं टंकओ झत्ति' इति- उत्थानं संमुखं चलनं टङ्कात्ततो विषमपर्वतप्रदेशाज्झगित्येव तस्य देवता करोति । एवं च छलेन प्रतिमाचौरस्त्वमिति कृत्वा गृह्यतेऽसौ प्रच्छन्ननियुक्तराजपुरुपैराच्छिद्यते च सर्वमपि धनं ततः सकाशात् । एवमौत्पत्तिकीबुद्ध्युपायेन राजा द्रव्यसंग्रहं कृतवानिति ॥ ९९ ॥
।
भिक्खुम्मिवि एवं चिय भुयंग तव्वेस णास जायणया । अण्णेऽवाउडवसही खरिचीवरडाह उड्डाहो १०० ' भिक्खुम्मिएवंचिय'त्ति भिक्षाविति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि भिक्षुणा कस्यचित्पुरुषस्य संवन्धिनो न्यायस्यापवः कृत इत्यर्थः । ततस्तेन वश्चितपुरुषेण 'भुयंग' इति भुजङ्गानां द्यूतकारिणां निवेदितं यथाऽयं रक्तपटो मदीयं निक्षेपकमपलप्य स्थित इति । ततस्तैस्तस्योपरि कृपां कुर्वाणैराद्यबुद्धिसहायैः 'तब्वेसनास 'ति तस्य भिक्षोर्वेषं कृत्वा रक्तपदैर्भूत्येत्यर्थः, तस्यैव भिक्षोः समीपे गमनं कृतम् । भणितश्चासौ यथा वयं तीर्थवन्दनार्थं गमिष्याम इत्येनमस्मदीयं सुवर्ण निक्षेपकं गृहाण । प्रत्यागतानामस्माकमर्पयेस्त्वमिति । एवं च ते यावदर्पयितुमारब्धा न चार्पयन्ति तावत्तेन वञ्चितपुरुपेण तत्संकेतितेनैवावान्तरे समागत्य 'जायणया' इति याचनं कृतं स्वकीयनिक्षेपकस्य, यथा-मदीयं प्राग्गृहीतं निक्षेपकं तावदर्पय भो भो भिक्षो ! । ततस्तेन यद्यहमेतस्य न्यासं न ढौकयिष्यामि तदा एते न समर्पयिव्यन्ति मम स्वीकीय निक्षेपकान् वश्यकं मां मन्यमानाः, इति तत्क्षणादेव समर्पितः । द्यूतकारभिक्षुभिरपि मिपान्तरं कृत्वा नार्पिता निक्षेपका इति । अत्रैव मतांतरम्, अन्ये ब्रुवते - यथा कश्चिच्छाक्यभिक्षुः कचित् संनिवेशे संध्याकाले