________________
जने पृष्टः । 'सिट्टे' इति शिष्टे कथिते तेन सर्वस्मिन्नपि वृत्तान्ते 'जुए' इति अन्यदा राजा पुरोहितेन सह द्यूतं रन्तुमारब्धः। तत्र चालक्षितमेव केनाप्युपायेन 'मुदागह'त्ति पुरोहितस्य नामाई मुद्रारत्नं गृहीतं भूमीभुजा। तदनु पूर्वमेव व्युत्पादितम्य कस्यात्मपुरुषस्य हस्ते न्यस्तं तत्, भणितश्चासावेकान्ते, यथा-पुरोहितगृहे गत्वा अनेनाभिज्ञानेन पुरोहितेन प्रेषितोऽहमिति निवेदन पूर्व द्रमकर्मबन्धिनं दीनारनकुलकं याचस्व । गतश्चासौ तत्र । 'लाभ'त्ति लब्धश्च नकुलकः । निक्षिप्त
धान्यनकुलकमध्ये। आकारितश्च द्रमकः, भणितश्च,-गृहाणामीपा मध्यात् स्वकीयं नकुलकम् । गृहीतश्च तेन Nम्बकीय एन । 'परिच्छियप्पिणणा' इति एवमौसत्तिकीबुद्धिवलेन परीक्ष्यार्पणं ढौकनं कृतं राज्ञा तन्नकुलस्य । जिह्वा च-15 |च्छिन्ना पुरोहितस्येति ॥ ९७ ॥ अंकेवंचिय पल्लयम्मि तह सीवणा विसंवयणं । अण्णे भुयंगछोहिय अंकियगोचेडिगामुयणं ॥१८॥
'अंकवंचिय'त्ति अंके इति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि कस्यचिद्वेश्मनि खरकदीनारसहस्रभृतो नकु लको निक्षिप्तः । मुद्रा च स्वकीया दत्ता । 'पल्लट्टयम्मि'त्ति तेनापि कूटरूपकभरणेन परिवर्तने कृते, 'तह सीवणा' इति तथैव मीवनं कृतं नकुलस्य । आगतेन स्वामिना याचितोऽसौ नकुलको लब्धश्च । यावन्निभालयति तावत् कूटकाः मर्वे दीनारा इति । कारणिकप्रत्यक्षं च व्यवहारः प्रवृत्तः। तैश्च लब्धदीनारसंख्यैस्तथैव सत्यदीनाराणां स नकुलो भृतः पुटितश्च । तदनु 'विसंवयनं'इति सत्यदीनाराणां द्रव्याधिकत्वेन पुष्टरूपत्वात् तत्र अमानलक्षणं संपन्नं ततो दापितो. मी सरकदीनारान् दण्डितश्चेति । अन्ये आचार्या वते, यथा-केनचित् पुरुषेण निजमित्रगोकुले स्वकीया गावश्चर