SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तदनु यथावद् द्वाभ्यामपि कथनं कृतं समग्रस्यापि तस्य । व्यवहारे इति तदनु कारणिकाग्रतः प्रारब्धे व्यवहारे कारराणिकनिपुणासत्तिकीवुद्धियुक्तः 'हत्याविसए ठावण'त्ति हस्तस्याविषयेऽगोचरे स्थापनं कृतं कस्यचित् पटादेवस्तुनः 'गह'त्ति या एतहरस्थितय गृहीष्यति सा एतद्भार्येति वदभिः। 'दीहा गरिसणे' इति तदनु व्यन्तर्या वैक्रियलब्ध्या दीर्घ हस्तं वा आकर्षणं कृतं तस्य वस्तुनः। तस्मिंश्च सति ज्ञानं संशयापनोदः संपन्नः कारणिकानां यदुतेयं व्यन्तरीति । तदनु निर्घाटिता सा तैरिति ।। ९३ ॥ है अथ पतिरिति द्वारम् - पतिद्गतुल्ला ण परिच्छ पेसणा वरपियस्स आइओ।इहरासंभव भुजो समगगिलाणे असंघयणी॥९॥ | कचिन्नगरे कुतोऽपि प्रघट्टकात् कस्याश्चित् स्त्रिया द्वौ पती संपन्नौ । भ्रातरौ च तौ परस्परम् । लोके महान् प्रवाद 18 उद्घाटितो यथा;-अहो महदाश्चर्यं यदेकस्या द्वौ पती, तथापि 'पइदुगतुल्लत्ति' पतिद्वयेऽपि तुल्या समानप्रतिवद्धा एका है सी। एष च वृत्तान्तो जने विस्तरन् राजानं यावद् गतः । तुल्योपचारसारा च किल सा तयोर्वर्त्तते । नेति-अमात्ये नोक्तम्,-न नैवायं वृत्तान्तः संभवति यदुत समानमानसिकानुरागा द्वयोरपीति ततः प्रोवाच महीपतिः,-कथमेतज्ज्ञायते ? मन्त्रिणाप्युक्तम्,-'परीच्छा' इति देव, तस्याः परीक्षार्थमेतामाज्ञां देहि, यथा-अद्य त्वदीयभर्तृभ्यां नगरात् । पर्वापरदिग्भागवत्तिनोमियोर्गन्तव्यमागन्तव्यं चायेव । ततो वितीर्णा चेयमाज्ञा राज्ञा तयापि पेसणा वरपियरस'त्ति यः प्रियः पतिस्तस्यापरस्यां दिशि यो वर्त्तते ग्रामस्तत्र प्रेपणं कृतं, सामर्थ्यादितरस्येतरत्र । ततः प्रोक्तममात्येन-'आइ. CACARECOMMERCIRCRAGICC 152515251956
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy