________________
रमध्ये प्रविष्टेन श्रुतोऽयं वृत्तान्तः । चिन्तितं च तेन 'न सुन्दरावधीरणाऽस्याः । स्पृष्टश्च पटहकः । गतश्च राजकुलम् । दृष्टा च तत्र सा राजसभोपविष्टा । तया च तं लघुवयसं क्षुल्लकमवलोक्य भणितम्, कुतस्त्वां गिलामि १ नूनं त्वं मम भक्षणनिमित्तमेव दैवेन प्रेषितोऽसि । तेन चानुरूपोत्तरदानकुशलेन झगित्येव स्वमेहनं दर्शितम् । एवं च प्रथमत एव जिता सा । तथा, 'काइया पउमं'ति कायिकया प्रतीतरूपया शनैः शनैस्तद्द्वाररूपं भुवि पद्मं विलिखितम्, भणिता च | 'पृष्टे ! संप्रति सर्वसभ्यपुरुपप्रत्यक्षं स्वप्रतिज्ञां निर्वाहय यदि सत्यवादिनी त्वमसि । न च सा तल्लिखितुं शक्नोति, अत्यन्त लज्जनीयत्वात् सामग्र्यभावाच्चेति मतान्तरमाह :- अन्ये पुनराचार्या ब्रुवते, यथा - ' कागविट्ठापुच्छाए' इति काकः कश्चित् कचित् प्रदेशे विष्ठां विकिरन् केनचिद् भागवतेन दृष्टः । तत्कालदृष्टिगोचरापन्नश्च क्षुल्लकस्तेन पृष्टः, यथा - भो | लघुश्वेताम्बर । किमिदं काको विष्ठां 'विक्षिपन्नितस्ततो निभालयती 'ति वद, सर्वज्ञपुत्रको यतस्त्वम् । अस्यां च पृच्छायां भणितं सुलकेन, यथा- 'विण्डुमग्गणया' इति एप हि काकः "जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके | ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत्" ॥ १ ॥ इति श्रुतस्मृतिशास्त्रः संपन्न कौतुहलश्च किमत्र विष्णुर्विद्यते न वेति संशयापनोदाय तं मार्गयितुमारब्धः ॥ ९१ ॥
| मग्गम्मि मूलकंडरि अज्ववाए कुडंगि पसवत्थं । जायण पेसण रमणे आगम हासे पडग्गहणं ॥९२॥
मार्गे इति द्वारपरामर्श: । 'मूलकंडरि'त्ति मूलदेवकण्डरीकधूत कदाचित्कुतोऽपि निमित्तात् पथि व्रजतः । तत्र चैकः पुरुषस्तरुणरमणीसहायो गन्यारूढः सन्मुखमागच्छन्नवलोकितः । 'अज्झववाए' इति अध्युपपन्नश्च कण्डरीकस्तस्यां यो