________________
मक्खे फलपडिवंधो वाणरएहिं तु लेटुफलखेवो।अण्णे अभरकणिज्जा इमे फला पंथवहणाओ॥८१॥
रुपये' इति द्वारपरामर्शः । फलानां गृह्यमाणानां प्रतिवन्धः प्रतिस्खलना । केभ्य इत्याह-वानरकेभ्यस्तु कपिभ्य एव । इदमुक्तं भवति-कचित् पथि फलप्रारभारनम्रशाखासंभारः कश्चिदानादिर्महादुमः समस्ति । तत्समीपेन च निरन्तरं तत्तत्प्रयोजनाक्षिप्तः पथिकलोको गच्छन्नागच्छंश्च पक्वान्यवलोक्य तत्फलानि बुभुक्षाक्षामकुक्षितया गृहीतुमारभते । परं तच्छासाममारूढातिचपलकपिकुलेन प्रतिस्खलितो न तानि गृहीतुं शक्नोति 'लेढुफलखेवो'त्ति-अन्यदा च केनचिनिपुणबुद्धिना पथिकेन लेटुक्षेपः कृतो मर्कटाभिमुखं, तदनु कोपावेगव्याकुलीकृतमानसैस्तैस्तत्प्रतिघाताय तानि फलानि 2 शितानि । एवं च परिपूर्णमनोरथः समजनि पथिकः । इति तस्यौत्पत्तिकी बुद्धिरिति । अत्रैव मतान्तरमाह-अन्ये आचार्या वृक्षद्वारमित्थं व्याख्यान्ति-यथा कैश्चिसथिकैः क्वापि प्रदेशे केनाप्यनुपजीवितफलान् वृक्षानालोक्य चिन्तितम्, यथा-अभक्षणीयानि इमानि फलानि वत्तेन्ते कुतः, 'पंथवहाणाओ' इति पान्थवहनात् पथिकलोकस्यानेन मार्गेण गमनादागमनाच्च । यदि ह्येतानि फलानि भक्षयितुं योग्यान्यभविष्यंस्तदा केनाप्यवश्यमभक्षयिष्यन्त, न च केनापि | भक्षितानि तन्नूनमभक्ष्याणि । इति पथिकानामौत्पत्तिकी बुद्धिरिति ॥ ८१ ॥
अथ सङगत्ति द्वारम् ;खगमंतिपरिच्छा सेणियगम सुमिण सेट्ठि णंद भए।मुद्दा कूवतडग्गह छाणुग जणणीपवेसणया ८२
HERRASTOSHOSSA Stea