________________
श्रीउपदे
'पणिय
शपदे
है यमर्थ इतक, यथा- 'भक्खणजयतिका समादाय विक्रयार्थं गतवान,
॥५७॥
बहुकाः शकटभरप्रमाणा लोमसिकाः कर्कटिकाः समादाय विक्रयार्थ गतवान् । तासु च विपणिपथावतारितासु केनचिदुर्तेन स उक्तः, यथा-'भक्खणजय'त्ति यदि कश्चिदेताः सर्वा भक्षयति तदा त्वं किं तेन जीयसे? तेन चासंभाव्योs| यमर्थ इति मनसि मत्वाऽसंभवनीयमेव पणितकं निवद्धं, यथा 'दारणिप्फिडगमोए' इति यो नगरद्वारेण मोदको न निर्गच्छति तं तस्य प्रयच्छामि । ततस्तेन तल्लोमसिकाशकटमारुह्य 'चक्खण'त्ति दन्तनिर्भेदमात्रेण 'खद्ध'त्ति सर्वासामपि तासां भक्षणं कृतम् । 'विक्कय'त्ति विक्रेतुमारब्धश्चासौ ताः, नच लोको गृह्णाति 'भक्षिताः केनाप्येताः' इति प्रवदन सन् । ततो धून लोकप्रवादसहायेन जितो ग्रामेयकः। तदनु तं मोदकं याचितुमारब्धः। ग्रामेयकश्च अशक्यदानोऽयं मोदक इति कृत्वा तस्य रूपकं प्रयच्छति, स नेच्छति, एवं दे त्रीणि यावच्छतमपि नेच्छत्यसौ । चिन्तितं च ग्रामेयकेण-नैतस्मा
तन्मिम कथंचिन्मुक्तिरस्ति इति निपुणबुद्धिपरिच्छेद्योयं व्यवहारः, 'चतुरवुद्धयश्च प्रायो द्यूतकारा एव भवन्तीति तानेवावलगामि । तथैव च कृतं तेन । पृष्टश्चासौ तैः, यथा-भद्रक! किमर्थमसान्निरन्तरमासेवसे त्वं? । भणितं च तेने, यथा-ममैवंविधं व्यसनमायातमिति । ततो 'भुयंग दारे अनिफेडो'इति भुजङ्गै तकारैरसावेवं शिक्षितो यथा + पूतिकापणे मुष्टिप्रमाणमेकं मोदकं गृहीत्वा तद्भूर्तसहायः शेषनगरलोकसहायश्च प्रतोलीद्वारे गत्वा इन्द्रकीलस्थाने तं विमुच्य प्रतिपादय यथा निर्गच्छ भो मोदक! इति । विहितं च तेनैवं, परं द्वारे मोदकस्य अणिप्फेडो निष्काशनाभावः संपन्नः । प्रतिजितश्चासौ तेन । एवं च द्यूतकाराणामौत्सत्तिकीबुद्धिरिति ॥८॥
अथ रुक्खे इति द्वारम्