________________
ततोऽमा रोहरु एवमाज्ञापितो नरपतिना तदादेशसंपादनार्थमागन्तुं प्रारब्धः यथा;--
अमवस्सासंधीए संझाए चकमज्झभूमीए । एडक्कगाईणंगोहलिं च काऊण संपत्तो ॥ ६६ ॥
ग्रह चन्द्रमासस्य द्वौ पक्षी, तत्राद्यः कृष्णो द्वितीयश्च शुक्लः । तत्र च कृष्णपक्षोऽमावास्यापर्यन्तः, शुक्लश्च पौर्णमासीपरिनिष्ठितः । एवं चामावास्या पक्षसंधितया व्यवह्रियते । पौर्णमासी च माससंधितया ततोऽमावास्यैव संधिरमावास्या - मंधिरयेतन पक्षात्यन्तसन्निधानलक्षणस्तस्मिन् संप्राप्त इति योगः । एवं च किल तेन पक्षद्वयं परिहृतं भवति । संध्यायामादित्यास्तमयलक्षणायाम्, अनेन दिनरात्रिपरिहारः । चक्रमध्यभूम्या चक्रयोर्गन्त्री संबन्धिनोर्गच्छतोर्या मध्यभूमिः प्रसिद्धरूपा तथा एतेनापथमार्गपरिवर्जनम् । सो हि न पन्था नाप्युत्पथः । तथा 'एडकगायणंगोहलिं च काऊण'त्ति एडकादिना एडकेन आदिशब्दाद्दिनावसानसंभूतातपेन चालनिकाछत्रेण चोपलक्षितः सन् । अनेन यानचलनयोरछायोष्णयोः छत्रनभसोश्च परिहारो विहितः । अंगोहलिमङ्गावक्षालनम्, चः समुच्चये, कृत्वा विधाय सर्वाङ्गप्रक्षालने हि स्ना| नमिति लोकरूढिः शिरःप्रक्षालन परिहारेण चाङ्गावक्षालनम् । ततोऽङ्गावक्षालनमात्रे कृते न स्नातो नापि मलिनकः संप्राप्तो राजभवनद्वारे ॥ ६६ ॥
राजभवनद्वारप्राप्तेन च तेन " कथं रिक्तहस्तो राजानं द्रक्ष्यामि यत इत्थं नीतिविद्वचनम् ; - " रिक्तहस्तो न पश्येत राजानं दैवतं गुरुम्” इति । नच नटानामस्माकमन्यत् पुष्पफलादि राजोपनयनयोग्यं मङ्गलभूतं किंचिदस्तीति विचिन्त्य -