________________
श्रीउपदेशपदे
॥५२॥
SAR
मृण्मयभाजनं मध्यनिक्षिप्तसमुचिततन्दुलदुग्धं विधायागाधे उत्कुरुटिकाक्षेत्रे निक्षिप्तम् । ततः कतिपयमहरपर्यन्ते सुपर स्वसमीपापायसं संजातं राज्ञश्च निवेदितमिति ॥ ६३ ॥९॥
नयनार्थएमाइ रोहगाओ इमं ति नाऊण आणवे राया । आगच्छउ सो सिग्धं परिवजंतो इमे थाने ॥६४॥ तृप्राज्ञी ___ एवमादि शिलामण्डपसंपादनप्रभृति रोहकात्सकाशादिदं पूर्वोक्तं कार्य संपन्नमित्येवं ज्ञात्वा आज्ञापयत्यादिशति राजा
जितशत्रुः । कथमित्याह-आगच्छतु मम समीपे स रोहकः शीघमविलम्बमेव, परं परिवर्जयन् परिहरन्निमानि स्थानानि || 5 एतानानित्यर्थः ॥ ६४॥
तान्येवाह;पक्खदुगं दिणराई छाउण्हे छत्तणह पहुम्मग्गे । जाणचलणे य तह पहाणमइलगो अण्णहागच्छ ६५ __पक्षद्विकं शुक्लकृष्णपक्षद्वयलक्षणं, दिनरात्री प्रतीतरूपे, छायोष्णौ छायामातपाभावरूपामुष्णं च चण्डकरकिरणलक्षणं, छत्रनभसी छन्नमातपवारणं नभश्च शुद्धमाकाशं, तथा पन्था मार्ग उन्मार्गश्चोत्पथः, मार्गमुन्मार्ग च परिहत्येत्यर्थः, यानचलने च यानं गळ्यादि चलनशब्देन चरणचेष्टा परिगृह्यते ततस्ते परिहत्येत्यर्थः, तथाशब्दः समुच्चये, स्नानमलिनकः स्नाने सत्यपि मलिनको मलिनदेहः स्नातो मलाविलकलेवरश्च सन्नित्यर्थः। अन्यथा पक्षद्वयादिपरिहारवता प्रकारेणागच्छतु मत्समीपमिति ॥६५॥
MSRS545528655295%