________________
भारजनवासवशेन आलादिरससंक्रमाद्विरसानि कूपजलानीति कृत्वा ग्रामावटानयनमादिष्टं भवतामिति । अस्यामाज्ञायां पतितायां सत्यां तैर्ग्रामेयकः आरण्यकोऽरण्योद्भवोऽज्ञ इत्यर्थ इत्यस्माद्धेतोः प्रेषयत एतदाकर्षिकां कूपिकां नगरीसंवन्धिनीं सुदक्षामेकां, तेन तदनुमार्गलग्नोऽसावस्मदीयकूपः पुरीं समभ्येतीति अनेन प्रकारेण निवर्त्तनमस्या आज्ञायाः । यथा न राजा कूपिकां प्रेपयितुं पट्टस्तथा तेऽपि स्वकमवटमित्यनपराधतैव तेषामितिभावः ॥ ६१ ॥ ७ ॥ गामावरवणसंडं पुत्रं कुणहत्ति मीयय इमं तु । तत्तोऽवरेण ठवणं तेण निवेसेण गामस्स ॥ ६२ ॥
ततः ग्रामादपरस्यां दिशि यो वनपण्डस्तं पूर्वं पूर्वदिग्भागवर्त्तिनं ग्रामात् कुरुत । इत्येवंरूपायामस्यां च नृपाज्ञायां पुनः इदं त्विदमेव वक्ष्यमाणलक्षणमुत्तरं तैः कृतम्, यथा, ततो वनपण्डादपरेण पश्चिमायां दिशि स्थापनं कृतं तेन निवेशेनवाकारेणेत्यर्थी ग्रामस्य । एवं हि कृते पूर्वेण वनपण्डो ग्रामात्, अपरेण ग्रामश्च वनपण्डात् संपन्नः ॥ ६२ ॥ ८ ॥ अरिंग सूरं च विणा चाउलखीरेहिं पायसं कुणह । आदेसे संपाडणमुक्कुरुडुम्हाइ एयस्स ॥ ६३ ॥
अग्निं वैश्वानरं सूरं चादित्यं विना अन्तरेण 'चाउलखीरेहिं' ति चाउलक्षीरैः चाउलैस्तण्डुलैः क्षीरेण च पयसा पायसं परमान्नं कुरुत । अस्मिन्नादेशे राजाज्ञारूपे आपतिते सति संपादनं कृतम् । कथमित्याह - उत्कुरुटिकोष्मणा उत्कुरुटिका नाम बहुकालसंमिलित गोमयादिकचवरपुञ्जस्तस्योष्मा उष्णस्पर्शलक्षणस्तेन एतस्यादेशस्य । रोहकादिष्टैस्तैर्निबिडं
१ क 'क्षेत्रादि-' । २ क ' - माज्ञाया सत्यां' ।