________________
-
कट विनान्तरेण इत्येपा आज्ञा राज्ञा प्रहिता। तत आदर्शके दर्पणे यन्निजमेव प्रतिविम्वं प्रतिकुक्कटतया संभावितं तेन तस्य प्रयोगो व्यापारः तेन संपादना घटना आज्ञायाः कृता रोहकेण, नवरं केवलं नान्यप्रयोगेणेत्यर्थः। स हि मुग्धनया निजप्रतिविम्वमेव प्रतिकुकुटतया संभावयन् संपन्नतीव्रमत्सरतया संजातोत्साहो युध्यति, न च कथंचिद् भज्यत
इति ॥ ५७ ॥ ३ ॥ है तिल्लसममाणगहणं तिलाण तत्तो य एस आदेसो।आदरिसगमाणेणं गहणा संपाडणमिमस्स ॥५॥
तलममेन मानेन ग्रहणं तिलानाम् , इदमुक्तं भवति-येन मानेन मदीयानेतांस्तिलान् कश्चिद् गृह्णाति तेनैव तैलम
प्यस्य दातव्यम् , आत्मवञ्चना च रक्षणीया ततश्च पूर्वोक्तादेशानन्तरं पुनरेप आदेशः प्रेपितो महीपालेन । रोहकबुद्ध्या 11च आदर्शकमानेन दर्पणलक्षणेन प्रमाणेन ग्रहणात्तिलानाम् , उपलक्षणत्वात्तैलप्रदानाच्च संपादनमस्यादेशस्य कृतं ग्राम
वृद्धः। आदर्शकेन हि तिलेषु गृह्यमाणेषु दीयमाने च तैले ग्रामेयकाणां न कदाचिदात्मवञ्चना संपद्यते, यदि परं तिल
स्वामिनो राज्ञः ॥ ५८ ॥ ४॥ 13 वालुगवरहाणत्ती अदिट्ठपुवोत्ति देहपडिछंदं । किं एस होइ कत्थइ, भणह, इमं जाणइ देवो॥५९॥
ततो वालुकावरहस्य सिकतामयवरत्रालक्षणस्य आज्ञप्तिराज्ञा, दत्ता राज्ञा-यथा, वालुकावरहकः कूपसलिलसमुद्धरणार्थमिह प्रेषणीयः, रोहकव्युत्पादितैश्च तैर्भणितम् , यथा, अदृष्टपूर्वोऽयमस्माकमीदृशो वरहकः इत्यस्मात्कारणात् दत्त
SARKARMIRECIRCAREER