________________
आत्मीक प्रभाव के विकास में दत्तचित्त है यही प्रभावना अंग है।
आत्म स्वरूपे यो रमते त्यक्त्वा सर्वव्यवहारम् । सम्यग्दृष्टिः भवति लघु प्राप्नोति भवपारम् ॥१८॥ अजरोमरो गुणगणनिलयः यत्र आत्मा स्थिरः तिष्ठति । स कर्माणि नैव वध्नाति संचितपूर्वाणि विलीयते ॥६॥
यः सम्यक्त्व प्रधानः बुधः स त्रैलोक्ये प्रधानः । केवल ज्ञानमपि स लभते, शाश्वत सुखनिधानं ॥६॥ यथा सलिलेन न लिप्यते कमलिनीपत्रं कदापि । तथा कर्मणा न लिप्यते यदि रमते आत्मस्वभावे ॥१॥
यः समसुखनिलीनः बुधः पुनः पुनः आत्मानं मनुते । कर्मक्षयं कृत्वा सोऽपि स्फुट लघु निर्वाणं लभते ॥६२॥ पुरुषाकार प्रमाणं जीव आत्मानं इमं पवित्रं । पश्यति गुण निर्मलं निर्मल तेजसा स्फुरन्तं ॥६॥
यं आत्मानं शुद्ध अपि मनुते अशुचिशरीर विभिन्न । स जानाति शास्त्रं सकलं शाश्वतसुखलोनः ॥६॥ यः नापि जानाति आत्मानं परं नापि परभावं त्यजति । स जानन शास्त्राणि सकलानि न हि शिवसुखं लभते ॥६५॥
वनितं सकल विकल्पः परमसमाधि लभन्ते। यत् विदन्ति सानन्दं स्फुटं तत् शिवसुखं भरणन्ति ॥६६॥ यः पिंडस्थं पदस्थं बुधः रूपस्थमपि जिनोक्तम् । रूपातीतं मन्यते लघु येन परः भवति पवित्रः ॥६॥
सर्वे जीवाः ज्ञानमया यः समभावं मनुते । तत् सामायिक जानीहि स्फुटं जिनवर एवं भणति ॥६॥ राग द्वेषौ द्वौ परिहत्य यः समभावं मनुते । तत्सामायिक जानीहि स्फुटं केवली एवं भणति ॥६६॥
[२१६]