________________
कथनी और करनी में जमीन आसमान का अन्तर होता है।
अद्य कर्माष्टकं नष्टं, दुःखोत्पादनकारकम् ।
सुखाम्भोधिनिमग्नोऽहं, जिनेन्द्र तब दर्शनात्॥८॥ अद्य मिथ्यान्धकारस्यहन्ता, ज्ञानदिवाकरः।
उदितो मच्छरीरेऽस्मिन्, जिनेन्द्र तव दर्शनात् ॥९॥ अद्याहं सुकृतो भूतो, निर्धू ताशेषकल्मषः ।
भुवनत्रयपूज्योऽहं, जिनेन्द्र तव दर्शनात् ॥१०॥ अद्याष्टकं पठेद्यस्तु, गुणानन्दितमानसः ।
तस्य सर्वार्थसंसिद्धि, जिनेन्द्र तव दर्शनात् ॥११॥
इति अद्याष्टकस्तोत्रम् सम्पूर्णम्
(०)
अथ नमस्कार मंत्राःom णमो अरहंताणं, णमो सिद्धाणं, णमो आइरीयाणं,
णमो उवज्झायाणं, णमो लोए सन्वसाहूणं ॥१॥ मन्त्रं संसारसारं त्रिजगदनुपमं सर्वपापारिमन्त्रं, संसारोच्छेदमन्त्रं विषमविषहरं कर्मनिर्मूलमन्त्रम् । मन्त्रं सिद्धि प्रदानं शिवसुखजननं केवलज्ञानमन्त्रं, मन्त्रं श्रीजैनमन्त्र जप जप जपितं जन्मनिर्वाणमंत्रम् ।।२।।
आकृष्टि सुरसंपदा विदधते मुक्तिश्रियो वश्यता, उच्चाटं विपदां चतुर्गतिभुवां विद्वषमात्मैनसाम् । स्तम्भं दुर्गमनं प्रति प्रयततो मोहस्य सम्मोहनम् ,
पायात्पंचनमस्क्रियाक्षरमयी साराधना देवता ॥३॥ अनन्तानन्त संसार सन्ततिच्छेद कारणम् । जिनराजपदाम्भोज स्मरणं शरणं मम ॥४॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जिनेश्वर ॥५॥ [4]