________________
26
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः सा तावन्न संशयात्मा, विरुद्धानियतकोव्यनवलम्बात् । न च विपर्ययः,*' स्वारसिकबाधादृष्टेः अनन्यथासिद्धेश्च । तदेतदुभयं दृढतरेति संगृहीतं । ग्रहणमिति वक्तव्ये प्रत्यभिज्ञेत्युक्तिनातृज्ञेयस्थैर्यस्यापि व्यक्त्यर्था ।
__आनन्ददायिनी मुपन्यस्यति-आस्तिहीति । प्रामाण्यानन्यथासिद्धिं दर्शयति-- सा तावदिति । ग्रहणमिति वक्तव्ये इति----उभयेन्द्रियजन्यैकविषयज्ञानमात्रेणापि धर्मिसिद्धिसंभवात् प्रत्यभिज्ञाग्रहणस्य प्रयोजनं वक्तव्यामित्यर्थः । पूर्व स्पृष्टवत इदानीं पश्यतश्चैक्यात् ज्ञातृस्थैर्य ; पूर्वं स्पृष्टस्येदानीं दृश्यस्य चैक्यात् ज्ञेयस्थैर्यमिति बोध्यम् । नन्वेवमपि प्रत्यभिज्ञया रूपाद्यतिरिक्तं द्रव्यं साधयितुं न शक्यते;
भावप्रकाशः एकार्थपदार्थेऽन्वयः इति सूचितं । सिद्धान्ते इयं च गौरिति सविकल्पकवत् इदमपि संस्कारसहकृतेन्द्रियजन्यमेव ज्ञानं प्रमात्मकं । तत्र दर्शनम्य संस्कारबलात् स्पर्शनस्य तदाश्रयस्य च स्वयंप्रकाशतया विषयस्थेन्द्रियसान्निकर्षण भानमिति बोध्यम् ।
*'स्वारसिकबाधादृष्टरिति-अबाधितत्वादिति यावत् । तत्प्र' योजकमपि हेतुमाह---*अनन्यथासिद्धश्चेति । प्रत्यभिज्ञायाः रूपाद्यतिरिक्ततदाश्रयविषयकत्वे विवदमानं प्रति दृष्टमेव स्पृशामीति प्रत्यभिज्ञा रूपस्पर्शातिरिक्तविषयिणी रूपमात्राविषयकत्वे सति स्पर्शमात्राविषयकत्वे