________________
सरः]
द्रव्यसाधनम्
सर्वार्थसिद्धिः वैभाषिका:-“निराधारा निर्धर्मकाश्च रूपादयश्चत्वारः पदार्थाः। ते चक्षुरायेकैकेन्द्रियग्राह्याः" इति.
* वात्सीपुत्रास्तु शब्दादीन् पञ्च वैभाषिका विदुः ।
शब्दात्मानश्चतुर्वेव केचिदित्यपरेऽब्रुवन् । तत्र निराधारत्वं तावत्प्रतिसन्धानविशेषेण निरस्यति । अस्ति हि दृष्टमेव स्पृशामीति *2 द्वीन्द्रियग्राह्यवस्तुविषया धीः ।
आनन्ददायिनी -तत्वसा(ग)रादिग्रन्थ इति शेषः । निराधारा इति धर्मपक्षः । निर्द्धर्मका इति धर्मिपक्षः। केचित्तु-रूपादय इत्युक्तया धर्मपक्ष एव । धर्मिपक्षस्तु
अस्थि रूआइएण एअं घयत्ति अक्खभेआदो । इत्यादिभिरुक्त उपलक्ष्य इत्याहुः ।।
अस्ति रूपादिकेन एकं गृह्यते अक्षभेदात् । इति तदर्थः ।।
वत्सी वैभाषिकमाता। वत्सीपुत्र(छात्राः)संबन्धिनो वात्सीपुत्राः । निराधारत्वं तावदिति-निर्द्धर्मकत्वं 'धर्मोनिर्धर्मकश्चेत्' इत्युत्तरत्र निरासष्यते। अनन्यथासिद्ध(प्रमाणभूत)प्रतीतैरेवार्थसाधकत्वात् ता
भावप्रकाशः *'वात्सीपुत्रास्त्विति--एत एव नित्यात्मतत्ववादिनः इति तत्वसंग्रहव्याख्यायां पञ्चिकायां ३३६ तमश्लोके स्फुटम् ।
* द्वीन्द्रियग्राह्यवस्तुविषयेति-एतेन मूले दर्शनस्पर्शनाभ्यामित्यत्र विषयतारूपं वैशिष्टयं तृतीयार्थः । तस्य एकार्थप्रत्यभिज्ञेत्यत्र