________________
सरः]
द्रव्यसाधनम्
तत्वमुक्ताकलापः * एकार्थप्रत्यभिज्ञा भवति दृढतरा दर्शनस्पर्शनाभ्यां
सर्वार्थसिद्धिः * ननु द्रव्यमद्रव्यमित्युभयमसिद्धं,
आनन्ददायिनी नन्ववस्थाश्रयो द्रव्यमिति लक्षणमसंगतं ; धर्मधर्म्यभावात् इत्याक्षेपसंगतिं दर्शयति-नन्विति--चत्वारो हि बौद्धाः:-वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकभेदात् । तत्र वैभाषिका अपि द्विविधाः
भावप्रकाशः ज्ञानमेकमेव तत्वमिति योगाचाराः । ज्ञानज्ञेयौ द्वौ न तु ज्ञाता इति वैभाषिकाः । इदंच मतद्वयं प्रमाणं प्रमेयं प्रमाता प्रमितिरिति चतुर्धा विभागेन परिष्करणीयमिति तात्पर्येण प्रमाणप्रमेयेत्यादि सूत्रयताऽक्षपादेन 'दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्' इति यत्प्रमेयपरीक्षासूत्रमारब्धं तद्दव्यपरीक्षासूत्रमपि भवतीति तदेव ज्ञेयं द्विविधं धर्मो धर्मी चेति वैभाषिकादिमतपरिष्करणायापि प्रभवतीति व्यञ्जयति* ' मूले एकार्थप्रत्यभिज्ञा ; दर्शनस्पर्शनाभ्यां ; इति पदद्वयेन । ननु द्रव्याद्रव्यविभागः परब्रह्मणा साक्षात्परम्परया च संबद्धानां गुणानां तदाश्रयस्य च अत्यन्तभेदज्ञापनायेति न युज्यते ; लोके रूपादिप्रत्यक्षे दण्डकुण्डलादि प्रत्यक्ष इव पृथग्विभिन्नवस्तुद्वयभानाननुभवेन रूपादिप्रत्यक्षस्योभयविषयकत्वासिद्ध्या रूपाद्यतिरिक्तवस्तुन एवाभावेन ब्रह्मगुणानां तदाश्रयस्य च भेदकथाया एवाभावादित्याशयेन शङ्कते-* नन्विति ।