________________
22
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
-
तत्वमुक्ताकलापः नित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव ज्ञातुईयावभासो मतिरिति कथितं संग्रहाद्रव्यलक्ष्म॥७
सर्वार्थसिद्धिः त्रिगुणसमाधिका त्रिगुणद्रव्यादन्या । सत्वयुक्ता सत्वाख्यगुणविशेषवती । त्रिगुणान्यत्वं कालादेरप्यस्तीति तद्व्यवच्छेदोऽनेन कृतः। एतावन्मात्रेण त्रिगुणसाधर्म्यमित्यभिप्रायेण तथैवेत्युक्तं; रजस्तमस्समानाधिकरणसत्वस्यापि * तत्र सत्वात् । 'निर्मलत्वात्प्रकाशकं' इत्यादि समानमिति वा। ज्ञातु यावभासो मतिः-अहमिदं जानामीत्यहमर्थाश्रयतया *'सिध्यन् सकर्मक: प्रकाशो मतिरित्यर्थः । तादृशावस्थयापि तद्विशिष्टं गृह्यते । द्रव्यलक्ष्म सामान्यतो विशेषतश्चेति शेषः ॥ ७ ॥
इति द्रव्यादीनां लक्षणानि.
आनन्ददायिनी गतीनां' इत्यादौ उपासनार्थमौपाधिकाणुत्वादिकमुक्तमिति भावः । अहमर्थाश्रयतया इति--सकर्मकःप्रकाशो मतिरिति लक्षणं । तदर्थस्तुस्वव्यतिरिक्तप्रकाशनियततत्कत्वं । नचात्मादौ स्वव्यतिरिक्तप्रत्यक्तादिप्रकाशकत्वादतिव्याप्तिः; आत्मवदेव तस्यापि स्वेनैव प्रकाशात् । अत एव शतदूषण्यां तेषां धर्माणां ज्ञानदृष्टान्तेन स्वप्रकाशतोक्तिः॥७॥
इति द्रवमादीनां लक्षणानि.
भावप्रकाशः * तत्र-त्रिगुणे* सिध्यन्निति-एतेन मूले ज्ञातुरिति न लक्षणान्तः पाति ; किंतु धर्मिव्यतिरिक्तधर्मभूतज्ञानसद्भावे प्रमाणसद्भावबोघनार्थम् । लक्षणं तु स्वभिन्नविषयसंयुक्तत्वमेवेति द्योत्यते ॥
-
--
-
-