________________
640
सव्याख्यसर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे
आनन्ददायिनी अधिहृदयगुहं मे वासमासाद्य नित्यम्
व्यलिखदखिलमर्थं माद्यमुक्तासरस्य ।। इति को(कु)शिककुलजलनिधिसुधाकरस्य निगमान्त(निगमशिखरपर)विद्याकुमुदिनीसंमोद(दिनीनिशा)करस्य वेदान्ताचार्यस्य भागिनेयेन वत्सकुलतिलक(वत्सकुलकलशजलधिकौस्तुभ) श्रीनृसिंहगुरुतनयेन नृसिंहदेवेन विरचितायां सर्वार्थसिद्धिव्याख्यायां आनन्ददायिन्यां जड
द्रव्यसरः प्रथमः ॥
भावप्रकाशः प्राचीनमेव पन्थानमनुरुन्धानाः कविचक्रवर्तिनः काणादाक्षपाददर्शने निरवशेषमेवाकुलीकृत्य जगतोऽनिर्वचनीयत्वं स्थापयामासुः । आचार्याश्च जैमिनिव्यासाशयानुरोधेन तद्दर्शनपरिष्करणेन जगतस्सत्यतां प्रत्यनैषुः । तत्र सर्वार्थसिद्धिः परमतनिरसनप्रधाना । न्यायपरिशुद्धिन्यायसिद्धाञ्जने तु स्वमतस्थापनप्रधाने इति विवेकः ।
स्वतन्त्रस्तन्त्रेषु कच निगमचूडागुरुमणिः क नाधीती शास्त्रे कचिदपि यथावन्मितमतिः । स्वयं पङ्गोमूर्ध्नि प्रबलतरगङ्गाझरसमो
दृढाभक्तावस्मिन् गुरुवरकटाक्षः प्रपतति ।। इति श्री लक्ष्मीहयग्रीव दिव्यपादुकासेवक श्रीमदभिनव रङ्गनाथ ब्रह्मतन्त्र परकाल यतिकृते लघुनि सर्वार्थसिद्धिाटप्पणे
भावप्रकाशे जडद्रव्यसरः प्रथमः