________________
636 .
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः मात्रम् । न तु सर्वदा सत्ता; कालान्तराभावात् । व्यापित्वं तु क्षणतोऽपि स्यात् । सार्वत्रिकाणामपि केषांचिद्योगपद्यसिद्धेः। नित्यत्वे प्रागेव प्रमाणं दर्शितम् । व्याप्तिश्च
कालं स पचते तत्र न कालस्तत्र वै प्रभुः । इत्यादिभिस्सिद्धा । त्रिगुणविभूतिवत् कालप्रतिनियतविकारास्तत्र न सन्तीत्यर्थः । स्वविकाराणामुपादानतयाऽन्येषां निमित्ततया वाऽस्य सर्वहेतुत्वं 'कालः पचति भूतानि' इत्यादिभिर्गम्यते । तदपि सर्वत्र सन्निहितस्य । ननु 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः' 'सर्वव्यापी सर्वभूतान्तरात्मा' इत्यादिष्वेकस्य सर्वव्यापकत्वं श्रूयते । अतस्तद्वयाप्यकालस्य कथं विभुत्वम् ? इत्थम्-न हि न्यूनदेशवर्तित्वमेव व्याप्यत्वम् । तथा सति समव्याप्तिभङ्गप्रसङ्गात् । तर्हि तद्वदन्योन्यव्याप्यत्वमिह स्यादिति चेत् ; किमत्रानिष्टम् ? परस्परप्रवेश्यत्वाधनभ्युपगमात् । द्वयोरपि सर्वसंयोगित्वे विवादाभावात् । अतो यत्र कालस्तत्र
. आनन्ददायिनी । क्षणसम्बन्धो न सम्भवत्यतीतादेस्संबन्धायोगादित्यत्राह----सार्वत्रिकाणामपीति । तत्काले वर्तमानानामित्यर्थः । ननूक्तेन प्रमाणेन नित्यविभूतौ कालाभाव एव प्रतीयत इत्यत्राह-त्रिगुणविभूतिबदिति । ‘कालं स पचते' इत्यंशेन कालसत्त्वप्रतीतरिति भावः । हेतुत्वबलादपि व्यापित्वं सिद्धमित्याह -----तदपि सर्वत्रेति । ननु सन्निधानाभावेऽपि कारणत्वमस्तु को दोषः ? इति चेन्न; अतिप्रसङ्गाभावाय कारणसन्निधानस्यापेक्षितत्वात् । विभुत्वे श्रुतिविरोध शङ्कते --नन्विति । परिहरति ---- इत्थमिति । द्वयोरपीति-विभुनाऽपि संयोगसम्भवादिति भावः । अत इति-यत्र कालसम्बन्धस्तत्र परमात्मसम्बन्ध इत्यर्थः । अन्यार्थ चेदं