SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ सरः] परिणतिपक्षेऽप्युपाध्यवश्यम्भावः अनित्याव्यापिकालवादि शैवपक्षः 635 तत्वमुक्ताकलापः प्राप्नुयुस्तानुबन्धाः नित्यो व्यापी च तादृक्परिणतिभिरसौ सर्वकार्ये निमित्तम् ॥ ६९ ॥ सर्वार्थसिद्धिः अनुबन्धाः-ऋतुलिङ्गादयः । आनन्तर्यनियमादुत्तरोत्तरकार्याणामुपाधिमूलत्वं च सिद्धम् । ऋतुलिङ्गादीनां तु न कालकार्यहेतुनियमः । ये तु शेवादयः कालमनित्यमव्यापिनं परिमितकार्यहेतुं च प्राहुः; तान् प्रत्याह-नित्य इति । क्षणाद्यंशस्यागन्तुकत्वेऽपि स्वरूपतो नित्यः । नित्यत्वं चात्र अध्वंसविरह आनन्ददायिनी णीयमिति चेत् ; मैवम् ; क्रियादीनां कालत्वे पौर्वापर्यव्यवस्थाया अभावेन सर्वेषां योगपद्यप्रसङ्गात् । ननु परिणतिपक्षे उपाध्यभावात् कथं तदात्वित्यादिना उपाधिरुच्यते ? इत्यत्राह-परिणतिपक्षमनोति । ननु तत्पक्षस्यानुपाधिपक्षत्वात्कथमुपाधिसम्बन्ध इत्याशङ्कय परिणामस्यापि कादाचित्कतया सामग्रीसापेक्षतया तासामेवोपाधित्वादित्यत्राह---तत्रापीति । ननु ऋतुलिङ्गादिकमेव कालव्यवहारहेतुरास्त्वि(लोपाधिरस्त्वि)त्यत्राहऋतुलिङ्गादीनामिति । व्यभिचारित्वमित्यर्थः । ये तु शैवादय इतिक्षणलवादिभिन्नस्य पूर्वोत्तरकालेष्वभा(कालेऽभा)वादनित्यत्वमव्यापित्वं च। अत एव न सर्वहेतुत्वमिति भावः । क्षणाद्यंशस्येति-क्षणलवादीनामौपाधिकत्वपरिणामाभ्यामुपपन्नत्वादिति भावः । ननु नित्यत्वं हि सर्वकालसम्बन्धः । स च कालस्य कालान्तराभावान्न सम्भवतीत्यत्राहनित्यत्वं चेति । प्रागभावाप्रतियोगिनः कालस्येत्यर्थः । ननु सर्वस्याप्येक
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy