________________
सरः]
मुनिमतभेद निर्वाहः
613
तत्वमुक्ताकलापः भूपरिध्यादिभेदैः दुर्ज्ञानं सर्वथा यन्मुनिभिरपि परैस्तत्र तूदासितव्यम् ॥ ६४ ॥
सर्वार्थसिद्धिः प्वप्येवं मतभेदा दृढाः। तत्रान्यतमप्रतिक्षेपे मुनयोऽपि यदि मुह्यन्ति किं कर्तव्यमित्यत्राह-दुर्ज्ञानमिति । परैः-ऋषिव्यतिरिक्तैरस्मदादिभिरित्यर्थः ॥६४॥
भूपरिध्यादिविषयप्रमाणेषु परस्परविरोधपरिहारः.
आनन्ददायिनी शविरोधो दुष्परिहरः तदा कल्पभेदेन विकल्पः । यदि कालांशे विरोधः तदा देशभेदेनेति भावः ॥ ६४ ॥
भूपरिध्यादिविषयप्रमाणेषु परस्परविरोधपरिहारः.
भावप्रकाशः महामतिभिः धृतस्सन् अनाद्यन्तेऽपि काले खिलत्वं न याति ' इति । एतेन दृग्गणितैक्यसंपादकसंस्कारं कर्तुमक्षमाणामाधुनिकानां सिद्धाप्तेष्वविश्वासकथनमनुचितमिति बोधितम् । अत एव सिद्धान्तभेदेऽपि अयननिवृत्तौ प्रत्यक्षं सममण्डललेखासंप्रयोगाभ्युदितांशकानां छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलो दैवज्ञ इत्युक्तं वराहमिहिराचार्यैः ॥ ६४ ॥