________________
610
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
पाश
तत्वमुक्ताकलापः मन्योन्यबाध्यम् विद्यास्थानं तु सर्वं प्रतिनियतनिजोपक्रियांशे
सर्वार्थसिद्धिः विद्यास्थानमिति । येनयेनोपकारेण दश विद्यास्थानानि वेदैरुपजीव्यन्ते तत्रांशे विरोधाभावात् प्रामाण्यं प्रतिष्ठितमित्यर्थः ।
___ आनन्ददायिनी येनयेनेति-ज्योतिश्शास्त्रं कालनिर्णायकत्वेनोपकरोतीति तत्र कृत्स्नं प्रमाणम् ; पुराणादीनि तत्वांशादिनिर्णायकत्वेनेति तत्र प्रमाणम् ; विरोधाभावादिति भावः । ननु विरोधस्थले कथं निर्वाहः ? इत्य
आवप्रकाशः 2* येन येनेति-ज्यौतिषस्य वेदोक्तकर्मानुष्ठानोपयुक्तकालनिर्णायकत्वेनोपकारकत्वम् ; यथोक्तं लगधेन
वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः ।
यस्मादतः कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ।। इति । पुराणस्य तुइतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् ।
(महा. आदि. १ अ) इत्युक्तदिशा वेदोपबृंहणेनोपकारकत्वम् । यद्यपि नारदीयसंहितायाम्
ब्रह्माचार्यो वसिष्ठोऽत्रिः मनुः पौलस्त्यलोमशौ । मराीचरङ्गिरा व्यासो नारदश्शौनको भृगुः ॥ च्यवनो यवनो गर्गः कश्यपश्च पराशरः । अष्टादशैते गम्भाराः ज्योतिश्शास्त्रप्रवर्तकाः ।।