________________
608
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
লিভ
सर्वार्थसिद्धिः * भूपरिधिकल्पनादिषु वैदिकशास्त्रद्वयविरोधं परिहर्तु
आनन्ददायिनी प्रसङ्गस्सङ्गतिरित्याह-भूपरिधीति । भूपरिधिः-- भूगोळमि
आवप्रकाशः पूर्वपक्षयित्वा
स्वयं समागत्य महासुरोयम् स्वयम्भुवस्तत्र वरप्रदानात् ।
उपैति तोषं जपहोमदानस्नानादि गृह्णन् हि विधुन्तुदाख्यः ।। इति वृद्धवसिष्ठसिद्धान्तमूलकम्. योऽसावसुरो राहुस्तस्य वरो ब्रह्मणा दत्तः ।
आप्यायनमुपरागे दत्तहुतांशेन ते भविता ॥ तस्मिन् काले सान्निध्यमस्य तेनोपचर्यते राहुः ।
याम्योत्तरा शशिगतिःगणितेऽप्युपचर्यते तेन ॥ इति वेदस्मृतिसंहितानुगुण्येनैव समाहितम् । एवं लल्लाचार्येणापि
(धीवृ. मिथ्था २७) ग्रहणे कमलासनानुभावात् हुतदत्तांशभुजोऽस्य सन्निधानम् ।
यदतः स्मृतिवेदसंहितासु ग्रहणं राहुकृतं गतं प्रसिद्धम् ॥ इति । एवं भास्कराचार्येणापि
राहुः कुभामण्डलगश्शशाङ्क शशाङ्कगश्छादयतीनबिम्बम् ।
तमोमयश्शम्भुवरप्रदानात् सर्वागमानामविरुद्धमेतत् ॥ अत्र शम्भुः ब्रह्मेति स्वेनैव व्याख्यातमपि ।
1* भूपरिधीति-भूपरिधिर्द्विविधः मध्यमः (निरक्षदेशीयः) स्फट(स्वस्वदेशीय)श्चेति । तत्र स्वदेशीयश्च प्रतिदेशमक्षांशभेदेन भिद्यते ।