________________
606
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडव्य
भावप्रकाशः यथा पातालावषये-~--
तदन्तरपुटास्सप्त नागासुरसमाश्रयाः । दिव्यौषधिरसोपेताः रम्याः पातालभूमयः ॥
___ (सूर्यसि. भूगोला. ३३)
इति ।
भूगोलान्तः पुटे सप्त रम्याः पातालभूमयः । तत्र नागासुरास्सिद्धाः निवसन्ति द्विजोत्तम ॥
(वासिष्ठसि. ११. ९२) इति च । अत्र श्रीविष्णुपुराणादौ पातालादौ सूर्यप्रभा वर्तते आतपस्तु नास्तत्युिक्तम् । पातालदेशानां भूविवररूपतया तदुपपद्यते । 'न भानु. करसंचारः' इत्यादिवासिष्ठसिद्धान्तोक्तिरपि सूर्यस्याधिकप्रकाशाभावाभिप्राया । नागमण्यादिभिः प्रकाशोक्तिरपि सूर्यप्रकाशादप्यधिकप्रकाशसद्भावाभिप्राया । मेरुविषये तु दैवज्ञविलासे लक्ष्मणयज्वना--
तदिलावृतस्य मध्ये मेरुनगो वेद (८४) योजनोत्सेधः । इत्यादिना विष्णुपुराणोक्तचतुरशीतियोजनप्रमाणमनुसृत्य तत्र सहस्रांशानादरेण योजनपरिमाणमुक्तम् 3* लोकानुपदिशद्भिरिति-महरादिलोकाः ज्यौतिीषकैरप्युक्ताः ; यथा लघुवासिष्ठे---
स्वर्लोको मेरुरेव स्यात् खे महश्च ततो जनः ।
ततस्तपः ततस्सत्य उक्ता लोकाश्चतुर्दश ॥ इति । अयमेवार्थः महासिद्धान्तसिद्धान्तशिरोमणिदैवज्ञविलासादिषूपपादितः । शास्त्रान्तरविरुद्धकल्पना न युक्तेत्युक्तं ब्रह्मगुप्तेनापि । यथा कृतादियुगचरणमानसाम्यविषये---
युगपादान्यार्यभटश्चत्वारि समानि कृतयुगादीनि । यदभिहितवान् न तेषां स्मृत्युक्तसमानमेकमपि ।।
(ब्रां. सि. मध्यमां)