________________
604
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः परिवृतकदम्बकुसुमग्रन्थिवत् मक्षिकावृतमधुगोळवच्च तिष्ठति । अमरा नरा(मरा)श्च परस्परमधस्स्थितान् मन्यन्ते । पतनं च सर्वेषां भूगोळमध्यदेशाभिमुखमेव । पृथिव्यंशास्तु अवकाशालाभान्न तत्र प्रविशन्ति । अतो महापृथिव्या न कदाचित्पतनम् ; तामपेक्ष्य कस्यचिदधोदेशस्याभावादिति । तदेतत भुवोऽधस्तादुपरि च लोकानुपदिशद्भिश्शास्त्रैरुपरुध्येत । यत्तु
___ पातालदेशाः क्षितिगोळमध्ये सप्तोपदिष्टास्तलपूर्वकास्ते । इति ; यदपि
मेरुयोजनमात्रः प्रभाकरो हिमवता परिक्षिप्तः। नन्दनवनस्य मध्ये रत्नमयस्सर्वतो वृत्तः ।।
आनन्ददायिनी तया परिसरप्रदेश इवावकाशाभावादित्यर्थः । अत इति-यतोऽवकाशे नास्ति महापृथिव्याः ततो न पतनमित्यर्थः । अवकाशाभावे हेतु:तामपेक्ष्यति । यथा भवतां प्रकृतिरघ उपरि (तः) च व्यापिनी ततोऽतिरिक्तप्रदेशो न ; तथा भुवः सर्वत इत्यर्थः । भूगोळमध्य एव ज्योतिश्शास्त्रे पातालादय उपदिष्टा इति पक्षान्तरेऽपि शास्त्रविरोधस्समान इत्याह-यत्तिति।
भावप्रकाशः स्वर्मेरुःस्थलमध्ये इत्यादौ महरादिलोकानामनुक्तेः अधस्तनपातालानामनुक्तेश्च नेदं युक्तमित्यभिप्रेत्याह
*तदेतदित्यादि । .