________________
सरः]
भूसंस्थानादी मतभेदाः तन्निरासश्च
603
सर्वार्थसिद्धिः योरयस्कान्तसमाधिं भूगोळे चायस्समाधिमारोपयन्ति ; तेऽपि कल्पनागौरवोपहताः। भूगोळस्यैव हि तादृशशक्तिकल्पनं युक्तम् ! न तु दवीयसोरात्मस्थितिनिर्वाहसापेक्षयोऽवयोः । *कचिद्भूगोळघनमध्यदेश एव सर्वेषामधोऽधोदेशः । तदभिमुखदत्तचरण एव स्थलजलचरस्सर्वो जन्तुवर्गः । भूमिस्तु तदाश्रिता नानाकेसर
आनन्ददायिनी दूषयति--केचिदित्यादिना । भूगोळस्य पिण्डम्य मध्यदेशः कठिनीभूतपिण्डाकारेण परितश्च घनीभूतो भूगोळो मध्यस्थसौरमण्डलकसौरप्रभान्यायेन वर्तते । तन्मध्यस्थकठिनप्रदेशन्यस्तचरणास्तदभिमुखाश्च सर्वे जन्तवो वर्तन्ते । अत एव सर्वेषामुपयधोभावबुद्धिः नरामराणां भवति । भूलोकादयश्च तदाश्रिताः । तथाच कदम्बग्रन्थिः केसरपरिवृत इव कठिनीभूतभगोळमध्यदेशो जन्तुवर्ग (लोक) परिवृतो भवति । जन्तूनामपि पततां पतनमपि भूगोळमध्यभूतकठिनप्रदेशाभिमुखमेव । 'तेषां च भूम्यशभूतानां न तत्र भूमध्यभागे प्रवेशः । काठिन्येन निबिड
भावप्रकाशः स्वर्मेरुः स्थलमध्ये नरको बडबानलश्च जलमध्ये । अमरमरा मन्यन्ते परस्परमधस्थितान् नियतम् ॥
(आर्यभ. गो. १२) तरुनगनगरनरासुरसुरैरयं केसरैरिव समन्तात् । भूगोलः कादम्बो मधुकरीभिरिव सर्वतः प्रथितः ।।
(धीवृद्धिदतत्रं-भगोला. ६) इति आर्यभटलल्लाद्युक्तिमभिप्रेत्याह-केचिदित्यादि ।