________________
सरः
भूपतनवाइनिरासः
599
सर्वार्थसिद्धिः निरालम्बे निरवधौ नभसि नित्यं निपतन्तीमलब्धप्रतिष्ठां भुवं कः प्रतिरुन्ध्यादिति चेन्न; 'वासुदेवस्य वीर्येण विकृतानि' इत्यादिना तत्सिद्धेः । भूपतने चोत्क्षिप्ताशिलादयो न कदाचिद्भुवं प्राप्नुयुः। गौरवप्रकर्षकाष्ठाभूताद्भूमण्डलादतिलघीयसां रजःप्रभृ
आनन्ददायिनी लिङ्गमिति चोदयति-निरालम्बे इति। निरवधित्वं-सन्ततपतनहेतुः । तथा च सर्वदा निरालम्बत्वे सति गुरुत्वात् सन्ततपतनमनुमीयत इत्यर्थः । हेत्वसिद्धिमाह - वासुदेवस्येति
वासुदेवस्य वीर्येण विधृतानि महात्मनः । इति विष्णुपुराणादौ भूम्यादेविधृतत्वप्रतीतेरित्यर्थः । प्रमाणाभावमुक्ता बाधकतर्कमप्याह-- भूपतने चेति । उरिक्षप्तशिलादेः पतनेन भूप्रदेशप्राप्तिसमयेऽन्धकूपादौ प्रथमपतितशिला(तल)वत् भुवोऽतिवेगेनाधःपातात् पश्चात्पतच्छिलायाः प्राक्पतच्छिलाप्राप्तयभाववत् भूप्राप्तिरेव कदापि न स्यादिति भावः। नन प्रथमं पतत्तृणादितः पश्चाक्षिप्तपाषाणादिकं पतनकाल एव वेगातिशयात्प्राप्तमुवद्दष्टमित्यत्राह-गौरवप्रकर्षेति । नन्वत्यन्तगुरुभूतस्यापि पोतस्य जलधेः पतनं मन्दं दृश्यते; वालुकायास्तु लघीयस्याः शीघ्रं दृश्यत इति कथमपहास्यता? इत्यत्राह--
परावप्रकाश अतस्सपक्षो बुद्ध्या परिकल्पितस्स्यात् । तत्र पतनपक्षोक्तदूषणैरेव उत्पतनपक्षेपि दोषम्सूह इति तात्पर्येण भास्करादिभिरुत्पतनपक्षे दोषो नोक्त इति भावेनाचार्यैरपि स पक्षो नोपन्यस्तः ॥