________________
598
सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
-
६
तत्वमक्ताकलापः रतम्यम् । पाते गुास्तु तस्याः प्रलघु दिवि समुत्क्षिप्तमेनां न यायात् ॥ ६३ ॥
सर्वार्थसिद्धिः भूपतने दोषमाह-पाते इति । अयं भावः–पातो हि भुवः न तावदुपलम्भागमाभ्यम्! तयोरिह तद्विपरीतत्वात । नाप्यनुमानतः गुरुत्वात्पतनस्य प्रतिबन्धके निरोधोपपत्तेः ।
आनन्ददायिनी मूलस्य प्राक्प्रतीचोः पत्रिणोः पतने तारतम्यं-व्यत्यासः प्रसजति-प्राक्पततः पश्चिमत्वं प्रत्यक्पततः प्राक्तं प्रसजतीत्यर्थः । ननु पतनस्य प्रामाणिकत्वे दोषः कथञ्चित्परिहर्तव्य इत्यत्राहअयं भाव इति । पतने प्रमाणाभावादिति भावः । नन्वनुमानमेव प्रमाणमित्याह-गुरुत्वात्पतनस्येति । गुरुत्वेऽपि दृढतरबद्धस्य पतनाभावाव्यभिचार इति भावः । प्रतिबन्धकाभावविशेषितं गुरुत्वं पतन
भावप्रकाशः 1*भूपतने इति-यद्यपि लल्लाचार्येण जैनसंमतपतनपक्ष इव उत्पतनपक्षेऽपि
यदि गच्छति भूरधोमुखी गगने क्षिप्तमुपैति नो महीम् । यदि वोर्ध्वमुपैति सा तदा निकटः किं न भेवद्भपञ्जरः ॥
(शीष्यधी. तं. मिथ्या ३८) इत्यनेन दोष उक्तः । तत्र उत्पतनवादी को वा दार्शनिक इति न ज्ञायते;