________________
584
सव्याख्यसर्वार्थसिद्धिसाहततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः भ्रान्तः क्लप्तं त्रिलोकीभ्रमणमिह
सर्वार्थसिद्धिः त्रैलोक्यभ्रमणं स्वीकृतम् ; *तदुपालभ्यते-भ्रान्तरिति । यथा स्वयं भ्राम्यन्तो बालिशाः भुवं भ्राम्यन्तीमभिमन्यन्ते तथेदमिति भावः । *यदि स्थिरतयैव दृष्टानां ग्रहनक्षत्राणां भ्रमणं कल्प्यते
____ आनन्ददायिना गवानामुत्तानतासम्भवादुत्तानत्वं भ्रमणे लिङ्गमिति भावः । यथा स्वयमिति—'उत्ताना ह वै' इत्यादेः 'प्रजापतिरात्मनो वपामुदक्खिदत्'
भावप्रकाशः तात्पर्येणेति सूचितम् । एतच्च अनुपदमेव स्फुटीभविष्यति । '*उपालभ्यत इति — उत्ताना ह वै देवगवा' इत्यादौ उत्तानत्वादिप्रतीतिस्तु भुवो गोलाकारत्वेन स्थितेरिति ; — भूमेः पिण्डः' इत्युपक्रम्य
यो यत्र तिष्ठत्यवनी तलस्थां आत्मानमस्या उपरि स्थितं च । स मन्यतेऽतः कुचतुर्थसंस्थाः मिथश्च ते तियगिवामनन्ति । अधश्शिरस्काः कुदलान्तरस्थाः छायामनुष्या इव नीरतीरे ॥
(शिरोमणि. गोला. भुवनको. १९-२०) इत्यादावुपपादिता । 'युगरविभगणाः' इति श्लोके अविशेषेण ग्रहाणां भुवश्च प्राग्गतिकथनेऽपि भुवः प्राग्गतिकथनं मिथ्याज्ञानसिद्धतात्पर्येणेत्युक्तिरनुचितेति शङ्कते-2* यदि स्थिरतयेत्यादि । अत्र स्थिरत्वं गत्यभावः । स च नक्षत्राणां निर्व्यापारत्वात् स्वरसत एवोपपन्नः । ग्रहाणां तु प्रवहाधीनप्रत्यग्गतिमत्त्वेऽपि सा गतिरितराधीनेति उत्तरदेशसंयोगानुकूलो व्यापारोऽन्यनिष्ठः न स्वायत्त इति भावः । प्राग्गतिस्तु