________________
562
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः . प्राणापानाख्यास्त्रारभसविसृमरः प्राप्य वैश्वानराख्यां मध्येदेहं हुताशो वसति जलनिधावौर्ववत्सर्वभक्षः । तत्तद्विद्यासु वेद्यं त्व(यस्त्व)न इव हि
सर्वार्थसिद्धिः वायोरनन्तरं वह्निनिरूपणे प्राप्ते प्राणसंगत्या वैश्वानरं तावच्छिक्षयति-प्राणेति । 'तस्य मध्ये महानग्निः' इत्यादिकमिहानुसंधेयम् । वारिनिर्वाप्यत्वनिवृत्त्यै बाडबनिदर्शनम् । प्राणवैश्वानरविचारस्य प्रधानशास्त्रार्थोपयोगमाभिप्रेत्याह-तत्तदिति। अनःप्राणः। 'अथ यदतः परो ज्योतिर्दीप्यते' इत्यारभ्य 'इदं वाव तत यदिदमस्मिन्नन्तः पुरुषे ज्योतिः' इत्याद्यामनन्ति छन्दोगाः। प्रसङ्गात् नास्तिकयोगिजननिरासाय द्वितीयसरवक्तव्यमुपक्षिपति
आनन्ददायिनी वैश्वानरनिरूपणे संगतिमाह-वायोरनन्तरामिति । प्राणविद्यायां प्राणस्येव वैश्वानरविद्यायां वैश्वानरस्य वेद्यत्वादिति भावः । प्रमाणं दर्शयति-तस्य मध्ये इति । हृदयमध्ये इत्यर्थः । काकदन्तपरीक्षावैषम्यं दर्शयति-प्राणवैश्वानरेति । तदेव शास्त्रमुदाहरति- अथ यदत इति । वैश्वानरविद्यायामामनन्तीत्यर्थः । नन्वात्मनः प्राणवैश्वानराभ्यां भेदसाधनमप्रस्तुतमित्याशङ्कयाह-प्रसङ्गादिति । मूलस्य प्राणापानाख्यो यो भस्त्रायाः-चर्मविकारस्य देहस्य रभसो-वेगयुक्तो वायुः तेन विसृमरो-व्यापनशीलस्सन् समुद्रमध्ये और्व इव देहमध्ये वैश्वानरनाम प्राप्य वसति । स च प्राणविद्यासु प्राण इव वैश्वानरविद्यायां