________________
542
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः तद्वाह्ये व्याप्तिरिष्टा यदि सततगतेरप्यसावस्तु बाह्ये॥ ५५॥ सर्वार्थसिद्धिः
सङ्ख्यादेरग्रहः स तोयादावपि समः । प्रसङ्गस्य व्याप्तिभङ्गमा (ङ्गस्याव्याप्तिमप्या) ह -नचेति । आत्मनि तावद्यद्यप्यहमेक इति धीस्स्यात् तथाऽपि तत्परिमाणं न गृह्यते । अत एव ह्यणुत्वविभुत्वदेहपरिमाणत्वसंदेह: । एवमन्यदपि । तथा बा - वपि द्रव्योपलम्भेऽपि द्वित्ववित्वाद्यग्रहो दृष्टः । उक्तव्यतिरिवयं नियम इति शङ्कते तद्वाह्य इति । सान्तर्हासमाह - सततगतेरिति । यथादर्शनं व्यवस्था त्वयाऽपि दुस्त्यजेति भावः ।।
वायुप्रत्यक्षत्वम्.
आनन्ददायिनी
1
भाव उच्यते । तोयादिवत् सजातयिसंमेलनस्य प्रतिबन्धकत्वात् राशिवन्याद्यवयव(न्यागत)व्रीहिवृक्षादिगतसंख्यादिप्रत्यक्षव (ख्याद्यप्रत्यक्षत्वा ) - दित्यर्थः। अनिष्टप्रसङ्गरूपानहानिमुक्ता अङ्गान्तरहानिमप्याह — प्रसङ्गस्येति । नन्वह (न्वात्मन्यह) मेक इति संख्याया ग्रहणात्तत्र व्यभिचाराभावात् कथं व्याप्तिभङ्ग इत्यत्रह – आत्मनीति । तथा च संख्याव्यति रिक्तेषु प्रत्यक्षत्वापादने आत्मगतपरिमाणा ( दौ) दिषु व्याप्तिभङ्ग इत्यर्थः । मूलोक्तप्रभृतिशब्दार्थं विवृण्वन् संख्यायामपि व्याप्तिभङ्गं दर्शयति-तथा बाह्ये(ष्वपी)ष्विति । राशि सेनावनस्पतिवन्याद्यवयवगत द्वित्वादावित्यर्थः ॥ ५२ ॥
-A
वायुप्रत्यक्षत्वम्