________________
540
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम् ।। ५१॥
सङ्ख्याद्याः स्पर्शनास्स्युः तदधिकरणकाः स्पर्शने गन्धवाहे तेषां द्रव्योपलम्भप्रतिनियतनिजाध्यक्षयोग्यत्वतश्चेत् ।
सर्वार्थसिद्धिः यग्राह्यत्वमविरुद्धमित्यर्थः। यदि रूपशून्यद्रव्यत्वाद्वायुरप्रत्यक्षइत्युच्येत; तदा रसशून्यद्रव्यत्वात्तेजोऽपि किं तथा? गन्धशून्यद्रव्यत्वाद्वा? अतोऽवादि-इन्द्रियान्तरग्राह्यविशेषगुणविरहो नेन्द्रियान्तरवेद्यत्वविरोधीति । अत्राविगीतमुदाहरणमाह-निर्गन्ध इति ॥५१॥
वायुप्रत्यक्षतायां परोक्तमनिष्टं शङ्कते --संख्येति । वायौ त्वगिन्द्रियग्राह्ये तन्निष्ठसंख्यापरिमाणादिद्वीन्द्रियग्राह्यवगर्गोऽपि तेन सह त्वचा गृह्येत । तेषां संख्यादीनाम् ।
आनन्ददायिनी (दप्यग्राह्यत्वम् ;) इन्द्रियान्तरपाद्यत्वमपि न स्यात् तदाऽतिप्रसङ्गमाहयदीति ॥५१॥
आक्षेप(पिकी)संगतिं दर्शयति-वायुप्रत्यक्षतायामिति । संख्यापरि