________________
सरः ] वायुप्रत्यक्षता, गुणानुमे पतानिरासः त्वावप्रत्यक्षत्वानुपपत्तिनिरासः
539
तत्वमुक्ताकलापः
न पुनरगमकं स्पर्शनं रूपशून्ये । अन्याक्षग्राह्यतादृग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे सर्वार्थसिद्धिः
द्रव्यग्रहणनिवृत्त्यर्था | उपलक्षणमेतत् अन्धतमसमध्यस्थस्य ; सालोकेऽपि निमीलितचक्षुषश्च । न चैतद्युक्तम् ! दर्शनस्पर्शनाभ्यामेकार्थग्रहणाभ्युपगमात्; अन्यथा द्रव्यापह्नवप्रसङ्गाच्च । ननु नीरूपं कथं प्रत्यक्षम् ? आत्मादीन् पश्य ! कथं बाह्याक्षग्राह्यम् ? रूपादीन्निरूपय ! कथं स्पर्शनवेद्यम् ? स्पर्शमेव परामृश ! इत्यभिप्रायेणाह - न पुनरति । तथाऽपि नीरूपद्रव्यं कथं बाह्येन्द्रियग्राह्यम् ? त्वगिन्द्रियग्राह्यं वा ? इत्यत्राह - अन्याक्षेति । इन्द्रियाणां स्वग्राह्यविशेषगुणोपधानेन हि द्रव्यग्राहकत्वमिति वः कल्पना । ततश्चेन्द्रिवान्तरग्राह्यविशेषगुणविरहेऽपि वायोस्त्वीगीन्द्र
आनन्ददायिनी
न चैतदिति । तेनैव द्रव्यसाधनादिति भावः । आत्मादीनिति - नीरूपस्याप्यात्मनः प्रत्यक्षत्वदर्शनात् तेनाप्रत्यक्षत्वसाधनमनुपपन्नमिति भावः । शङ्कते - कथमिति । उत्तरमाह - रूपादनिति । तद्वाह्येन्द्रियग्राह्यत्वाव्याप्यमपि न भवति रूपे व्यभिचारादित्यर्थः । पुनर्विशे (पुनरपि - विशे)षव्याप्तिमभिप्रेत्याशङ्कते - कथं स्पर्शनेति । उत्तरमाह - स्पर्शमेवेति । इन्द्रियाणामिति–तथाच स्वग्राह्यगुणाभावे तदिन्द्रियग्राह्यता न स्यात् ; न चात्र तदभावः ! इति भावः । यदीन्द्रियान्तरग्राह्यगुणाभावाददपि