________________
482
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
[जडद्रव्य
तत्वमुक्ताकलापः स्थैर्ये तद्योग्यभावो
सर्वार्थसिद्धिः च्छादकं प्रभाप्रतिघातार्थं दृष्टम् । उन्मीलितनिमीलितचक्षुषः पिठरकावृतदीपप्रभान्यायेन पूर्वप्रसृतनयनप्रभाया विनाशादतिक्रमाद्वा ग्राह्यग्रहणाभावः । अत्र गृहीतच्छन्नमपि गृह्येतति प्रसङ्गारूढम् । तदा सममिति पूर्वमिवेत्यर्थः । तच्च क्षणभङ्गेन योग्यायोग्यभेदकल्पनया परिजिहीर्षतः सर्वलोकप्रसिद्धयनुसारिणा स्वमतेनोत्तरमाह-स्थैर्ये इति ।
आनन्ददायिनी विषयप्राप्तयर्थमिन्द्रियवृत्तेविषयदेशव्यापने सति निमीलिताक्षस्यापि विषयग्रहणं स्यात् निर्गताया वृत्तेस्सत्त्वद्विषयप्राप्तिसत्त्वादित्यत्राह-उन्मीलितनिमीलितेति । पिठरकं-वैतसादिपात्रविशेषः । अति(प्रति)क्रमाद्वेतिविषयदेशातिक्रमणेन तदा विषयप्राप्तयभावादित्यर्थः । (इदमभ्युपगम्योक्तम्)। यद्वा-प्राप्तिपक्षे गृहीतच्छन्नमपि गृह्यतेति प्रसङ्गारूढं-प्रसङ्गेनापादितमपि तदा समं-छादकनैष्फल्यपक्षेऽपि समं-अम्बुकाचादिस्थलवदिति। प्रकारान्तरेणाप्यर्थमाह-गृहीतच्छन्नमपीति । तथाच मूलस्यायमर्थः-नो चेत् काचादीनामिन्द्रियप्रवेशनयोग्यसंस्थानवत्त्वाभावे तद्व्यवहितग्रहणवत् पिठरादिव्यवहितमपि योग्यं निखिलं गृह्येत छादकानामप्रतिबन्धकत्वादिति सममित्यर्थः । ननु गृहीतस्य पिठर (स्य) व्यवधानं नास्त्येव तस्य क्षणिकतया नाशात् ; तदनन्तरोत्पन्नं च पूर्व (पूर्वपूर्व) स्माद्भिन्नमिति तदयोग्यत्वादेव न गृह्यत इत्यत्राह-तच्च क्षणभङ्गेनेति । तच्च उक्तप्रसञ्जनमित्यर्थः ! तद्योग्यभाव इति मूलम् । तद्योग्यभावः--इन्द्रिययोग्य