________________
सरः ~~
छादकाभावस्य स्वतः कारण त्रनिरतः
181
तत्वमुक्ताकलापः नो चेत् गह्येत योग्यं सममिह निखिलं निष्फले छादकादौ
सर्वार्थसिद्धिः 'सर्वत्र स्वरूपयोग्यत्वायोग्यत्वाभ्यामेव ग्रहणाग्रहणे । तत्र छादकतदभावौ निरर्थको' इति वदतां बाधकं स्वोक्तानुमानस्य विपक्ष बाधकं अयस्कान्तनिदर्शनेऽपि छादकनेष्फल्येऽतिप्रसङ्गमाभग्रेत्याह-नो चेदिति । इह योग्यं निखिलं सर्वस्मिन् जगति स्वरूपयोग्यं सर्व समं गृह्येत, अविशेषायुगपदेवेत्यर्थः । आदिशब्देन अतिदृरत्वकालविप्रकर्षादिकं दृष्टान्तय (ततया गृह्णा) ति । छादकाभावः स्वरूपतस्सहकारी न तु प्राप्तिविरोधिप्रत्यनीकतयेति चेन्न; आलोकादिप्राप्तिविरोधिच्छत्रादिन्यायस्यात्रानपायात् । न च यत्रक्वचिच्छादकाभावस्सहकुर्यात् अतिप्रसङ्गात् । किं तु नयनार्जवदेशे । अयं च (अयं नियमः) प्राप्तिविरोधिनिवृत्तिरूपतयेति युक्तमुत्पश्य ! रूपग्रहणसामग्रयामेव प्रदीपादि
आनन्ददायिनी योजक इति शङ्कते- सर्वत्रेति । दृष्टान्ततयेति-यथा (दूरत्व)कालविप्रकर्षादेस्सन्निकर्षप्रतिबन्धकत्वं तद्विरहस्य तदापादकत्वं च नास्ति(किन्तु) अयोग्यत्वमात्रेण ग्रहणाग्रहणे इ(ग्रहणमिति तयोर्निष्फलत्वं तथेत्यर्थः । छादकाभाव इति- व्यवधायकाभाव (इत्यर्थः) । प्राप्तिविरोधिरूपप्राप्तयभावप्रत्यनीकतया प्राप्तिसंपादकतया न प्रयोजकं किं तु स्वयं कारणमित्यर्थः । आलोकादीति-अन्यत्र क्लप्ता(दृष्टा)कारकल्पनस्योचितत्वादिति भावः । तनयायमेवोपपादयति-नच यत्र क्वचिदिति । ननु
SARVARTHA.