________________
408
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्गव्य
सर्वार्थसिद्धिः यथायथ(यथार्ह)मूह्यम् । ईदृशस्य जन्मन उपादानावस्थान्तरसाध्यत्वे कारणानवस्थामात्रमापतति । सा च न दोष इति सर्वाविगीतम् । यच्च भिन्नत्वे गवाश्वयोरिव कार्यकारणता न स्यात् । आभिन्नत्वे च कथं सिद्धस्य साध्यत्वमितिः तन्नः कारणात्कार्यस्य भिन्नस्योत्पत्ति(दृष्टेः)दर्शनात् ॥
अन्यथा बुद्धिबोध्यादौ भिन्नत्वादिविकल्पतः।
बोध्यत्वादिक्षतेन स्यात् स्वमतस्थापनाऽपि वः ॥ अथ किश्चित्कारेणाकिञ्चित्कारण वा कारणत्वं ? पूर्वत्र हेतूनां किञ्चित्कारजननेऽपि किञ्चित्कारान्तरापेक्षयाऽनवस्था । किञ्चित्कारस्यापि किञ्चित्कारजननापेक्षया; उत्तरत्रातिप्रसङ्ग इति ।
आनन्ददायिनी वस्थासामानाधिकरण्येन ध्वस्तो घट इति व्यपदेश इत्यर्थः । ननपादानावस्थाया जन्मत्वेऽपि प्रागसत्त्वेन साध्यत्वादनवस्था स्यादित्यत आहईदृशस्येति । सर्वाविगीतमिति–बीजीङ्कुरादौ तथा दर्शनादिति भावः । अन्यथेति-दर्शनस्यानियामकत्वे इत्यर्थः। घटबुद्धिर्घटाद्भिन्ना न वा? आये पटवत् तद्विषया न स्यात् । द्वितीयेऽपि स्वयं तद्विषया न स्यात् । बोध्यं बुद्धिसंबद्धं प्रकाशते असंबद्धं वा? आद्येऽपि स संबन्धस्संबद्धोऽसंबद्धो वा? प्रथमेऽनवस्था ; द्वितीये संबन्धस्यासंबद्धत्वे तन्मूलकबोध्यसंबन्धस्याप्यभावेन प्रकाशाभावादिति प्रसङ्गयोः प्रसङ्गः; अत एवाद्यद्वितीयोऽपि नेत्यादि (त्याद्य)विकल्पसंभवादिति भावः । किञ्चित्कारः-व्यापारविशेषः । प्रकारान्तरेणाप्यनवस्थामाह-किञ्चित्कारस्यापीति । किञ्चित्कारस्यापि कार्यजननार्थ किश्चित्कारापेक्षयां द्वितीयाऽनवस्थेत्यर्थः । उत्तरत्रेति