________________
सरः] पश्चाद्भवितुः कारणप्राप्तयुपपत्ति: जन्मनोजन्यत्वाजन्यत्वविकल्पदृयणोद्धारश्च 407
सर्वार्थसिद्धिः अनङ्गत्वात् । ततश्च नातिप्रसङ्गः नियामकस्य सिद्धत्वात् । प्रकाश्यदाह्यादिषु च यथादर्शनं कारणानां मिथः प्राप्तिरेवाङ्गं न तु कार्येण ज्ञानेन सह भस्मादिना वा । यस्तु जन्मनो जन्यत्वाजन्यत्वविकल्पनातिप्रसङ्ग उक्तः, नासावस्मत्पक्षे दोषः । न हि वयमभिव्यक्तिं वा कारणसमवायादिकं वा जन्मति भ्रूमः! किन्तूपादानावस्थाविशेष । तस्य कार्यावस्थासामानाधिकरण्यव्यपदेशः तादात्म्येन तदाश्रयवृत्तेः । एवं ध्वंसादिसामानाधिकरण्यमपि
आनन्ददायिनी दावपि कार्यप्राप्तिर्नास्ति किंतु कारणानामेव यथादर्शनं मिथः प्राप्तिरिति नातिप्रसङ्ग इत्याह---प्रकाश्येति । नासाविति-चार्वाकोपि घटपटादिवस्तुनो न नित्यतामभ्युपैति । किंतु तस्य सादितां निहतुकं जन्म च । तत्रोक्तो दोषः स्वस्यैव दोषो नास्मत्पक्ष इति(त्यर्थः) भावः । ननु त्वत्पक्षेऽप्यभिव्यक्तयादिकमुत्पत्तिश्चेद्दोषस्समान इत्याहन हि वयमिति । अभिव्यक्तिपक्षे अभिव्यक्तिरभिव्यज्यते न वेत्यादिविकल्पदोषस्स्यात् । कारणसमवायपक्षेऽपि स सिद्धो न वेत्यादिविकल्पदोषस्स्यादित्यर्थः । उपादानावस्थाविशेषमिति-उपादाननिष्ठो यो घटाद्यवस्थाव्यवहितप्राक्कालावस्थाविशेषः तमित्यर्थः । यद्वा आद्यक्षणावच्छिन्ना घटाद्यवस्थैवेत्यर्थः । ननूपादानावस्थाया मृदादिनिष्ठतया घटादिकार्यनिष्ठत्वाभावात् कथं घटो जायत इति सामानाधिकरण्यव्यपदेश इत्यं त्राह-कार्यावस्थेति । उत्पत्त्यवस्थाश्रयवृत्तित्वाव्यपदेश इत्यर्थः । तदेव तु कुत इत्यत आह—तादात्म्येनेति । उत्पत्त्यवस्थाश्रयस्य कार्यावस्थाश्रयस्य च तादात्म्यादित्यर्थः । एवमिति यदवस्थाश्रयवृत्तित्वं यस्य तस्य तत्सामानाधिकरण्यव्यवहारप्रयोजकत्वमित्यङ्गीकारात्, ध्वंसा