________________
392
सव्याख्यतर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
___तत्वमुक्ताकलापः तद्धेतुसंघः नचासौ हेतुर्नान्यः स्थिरास्ते
सर्वार्थसिद्धिः रिक्तोऽप्यक्षणिकः क्षणोपाधिन स्यादित्यत्राह-नचेति । अयं भावः-सङ्घशब्दो न सम्बन्धमात्रवाचकः सम्बन्धशब्दपर्यायत्वाप्रसिद्धेः । न च तत्तत्सम्बन्धिस्वरूपवाचकः प्रत्येकमप्रयोगात् । अतः केनचिदुपाधिना सङ्ग्रहातास्त एव सङ्घशब्दार्थः। तत्र यदि त एव क्षणोपाधितया दृष्टान्तीक्रियन्ते तथासति-स्थिरास्त इति । ननु तत्संहतिहेतुरुपाधिदृष्टान्तस्स्यात् ? मैवम् ;-न हि नः केवलनित्यात् केवलानित्याद्वा कस्यचित्कार्यस्योत्पत्तिः! किं तु तत्समुदायात् । तत्र नित्यांशे तावत् क्षणिकशङ्काऽपि नास्ति । अनित्येऽपि यतश्चिरोत्पन्ना
आनन्ददायिनी अयं भाव इति । संबन्धशब्दति-संयोगादौ (गादिमात्रे) संघशब्दाव्यवहारादिति भावः । अत इति । केन चित् देशाधुपाधिना प्रयोजकेन संगृहीताः अवच्छिन्नाः । त एव-संघातिन एव संघशब्दवाच्या इति नियमतस्तत्रैव व्यवहारादिति भावः-स्थिरा इति । तथाच दृष्टान्तासिद्धिरिति भावः । नन्वीति-संहतिहेतूपाधेः क्षणिकत्वाभावे तदवच्छिन्नस्याक्षणिकतया क्षणोपाधित्वं न स्यादिति संहतिहेतूपाधिः क्षणिको वाच्यः । तथाच स दृष्टान्तस्स्यादिति भावः । मैवमिति–सङ्घातप्रयोजकं कारणेषु किमिति विचारे तत्र प्राप्ताप्राप्तविवेचने चरमकारणमेव । तच्च उत्तरकालस्थायित्वात् स्थिरमेव । न च क्षणोपाधित्वानुपपत्तिः स्वकार्यप्रागभावसहितस्य क्षणावच्छेदकत्वात् । तयोः स्थिरत्वान्न कस्यापि