________________
सरः]स्वमते व्याप्यत्वासिद्धे. रन्याथासिद्धेश्च साधकबाधकत कौं परदृष्टान्तासिद्धिश्च 391
तत्वमुक्ताकलापः दृष्टान्तहानिः स्थिर इति विदितो यत् क्षणस्याप्युपाधिः । सामग्री कार्यशून्या क्षणः इयमपि सर्वार्थसिद्धिः
सन्ततिकल्पनम् ; तस्य प्रवृत्तिविज्ञानेन सह सर्वप्रकारसम्बन्धायोगादिति । अथ क्षणोपाधिवदित्युक्तं प्रतिवक्ति दृष्टान्तहानिरिति । अक्षणिकत्वे कथं क्षणोपाधिरित्यत्र गूढाभिप्राय आहसामग्रीति । कार्यशून्या - कार्य प्रागभावसमन्विते त्यर्थः । क्षणःक्षणोपाधिरिति यावत् । तथाऽपि तस्य क्षणिकत्वं न प्रतिक्षिप्तमित्यत्राह - इयमपीति । ननु हेतूनां सङ्घोऽपि हेत्वनतिरि - श्वेत् तेषां भवत्पक्षे स्थिरत्वात् न क्षणोपाधित्वं । अतिआनन्ददायिनी
क्रियते तस्य चेत् क्षणिकत्वमभ्युपैषि तदा प्रवृत्तिविज्ञानेन सम्बन्धाभावान्नियमासिद्धेस्सर्वस्य प्रवृत्त्यप्रवृत्तिप्रसङ्गतादवस्थ्यात्तदङ्गीकारो व्यर्थ इत्यर्थः । ननु जन्यजनकभावसम्बन्धान्नियमोऽस्तु इत्यत्राह - सर्वप्रकारेति । इन्द्रियसम्प्रयोगजन्ये ज्ञाने आलयविज्ञानस्याश्रयतया जनकत्वं वाच्यम्; तच्च क्षणिकत्वे न सम्भवति; ततोऽतिरिक्तश्व सम्बन्धोऽनतिप्रसक्तो दुर्वच इति सर्वप्रकारेणापीत्युक्तमिति भावः । ननु कार्यशून्या सामग्री क्षणोपाधिश्चेत् सामग्र्याः क्षणिकत्वमावश्यकं ; अन्यथा क्षणोपाधित्वायोगादिति शङ्कायास्तादवस्थ्यादिति कथं दृष्टान्तहा - न्युपपादनमित्यत्राह –—–———गूढाभिप्राय इति । गूढाभिप्रायमेवावतारिकामुखेन व्यनक्ति–तथाऽपीत्यादिना । अभिसन्धि प्रकाशयति---