SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 386 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप जंडद्रव्य सर्वार्थसिद्धिः * स्वरूपेण क्षणोपाधयः स्युः; कालतारतम्यधीः * कुत्रापि न भवेत् । त(दा)थाच स्थिरशङ्काया एवानुदयात् निर्विषयमनुमानं आनन्ददायिनी स्वरूपेणोपाधित्वे स्वस्वावच्छिन्नकालस्यैव क्षणत्वात् सर्वेषां च स्वावछिन्नकाल एव वृत्तेः कालतारतम्यं न स्यात् । स्वकालातिरिक्तकालवृत्तित्व(रूप)स्य वैषम्यस्यासम्भवात् । नन्विष्टापत्तिः ; क्षणिकवादिनः सर्वस्यापि क्षणकालवृत्तित्वादित्यत्राह--तथाचेति । स्वावच्छिन्नकालमात्रस्य क्षणकालत्वात् तदतिरिक्तवृत्तित्वं हि स्थिरत्वं भवन्मते निरस्य ! नचेदं कस्यचिदपि सम्भाव्यते! स्वकालवृत्तित्वस्य स्थैर्यवादिभिरप्यङ्गीकारात्; अतिरिक्तवृत्तित्वे सन्देहाभावात् एतादृशक्षणिकत्वसाधने सिद्धसाधनता स्यात्। तथाच सन्दिग्धे न्यायः प्रवर्तत इति अनुमानमपि निर्विषयं स्यादित्यर्थः । क्षणि भावप्रकाशः 1* स्वरूपेणेति-उदयानन्तरस्थायिस्वरूपेणेत्यर्थः। * कुत्रापि न भवेदिति-अयं च दोषः, उदयानन्तरस्थायि स्वरूपं यच्च वस्तुनः । तदुच्यते क्षणस्सोऽस्ति यस्य तत् क्षणिकं मतम् ॥ ३८८ ॥ इति शान्तरक्षितपरिष्करणेऽपि बोध्यः । क्षणिकत्वानुमितेः शुद्धस्वरूपावगाहित्वे साध्यस्य पक्षादविशिष्टतया साधनप्रयासवैफल्यं । उदयानन्तरस्थायित्वविशेषिततदवगाहित्वे अतद्रूपपरावृत्तस्वरूपावगाहिविकल्पस्येव असदर्थावगाहित्वेन प्रान्तत्वमिति स्फुटम् । तत्र पञ्चिकायां उत्पादानन्तरविनाशिस्वभावो वस्तुनः क्षण उच्यते ; स यत्रास्ति स क्षणिक इति कमलशीलोक्तिरापातरमणीया । तथाहि-उत्पादकाले विनाशस्य विनाशकाले उत्पादस्याननुभवेन करणाकरणे इव परस्परविरुद्धावुत्पादवि
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy