________________
सरः
विरुद्धधर्माध्यासपरिहारः
343
भावप्रकाशः तथाऽपि तद्वियुक्तोऽयं कारको नान्त्यहेतुवत् ।। निजस्तस्य स्वभावोऽयं तेषामेव हि सन्निधौ ।
कारकत्वमतः कार्य तद्भावेजप न सर्वदा ॥ ४१० ॥ इति तत्वसंग्रहोक्तपक्ष एव सिद्धान्तितः ॥
विरोधपदार्थ न्यायबिन्दौ (२ पृ) धर्मकीर्तिरित्थमाह-'द्विविधो हि पदार्थानां विरोधः ! अविकलकारणस्य भवतोऽन्यभावः अभावा. द्विरोधगतिः शीतोष्णस्पर्शवत् । परस्परपरिहारस्थितलक्षणतया वा भाववत्' इति । अत्र धर्मोत्तराचार्यः--' यस्य कारणवैकल्यादभावो न तस्य केनचिदपि विरोधगतिः । तदर्थमविकलकारणग्रहणं अविकल कारणस्यापि यत्कृतात्कारणवैकल्यादभावः तेन विरोधगतिः । तथाच सति यो यस्य विरुद्ध. स तस्य किञ्चित्कर एव । तथाहिशीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्तको विरुद्धः । तस्मात् हेतुवैकल्यकारी विरुद्धो जनक एव' इति । एवं 'ततोऽसमर्थावस्थाजनकत्वमेव निवर्तकत्वं । अतश्च यस्मिन् क्षणे जनकस्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्र निवर्तते । जन्यजनकभावाच्च सन्तानयोर्विरोधो न क्षणयोः । यद्यपि च न सन्तानो नाम वस्तु; तथाऽपि सन्तानिनो वस्तुभूताः । ततोऽयं परमार्थः-न क्षणयोर्विरोधः ; अपि तु बहूनां क्षणानां ; यतः सत्सु दहनक्षणषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति' इति । एवं 'ये त्वाहुः न विरोधो वास्तव इति त इदं वक्तव्याः - यथा न निष्पन्ने कार्ये कश्चिजन्यजनकभावो नाम दृष्टोऽस्ति ! कारणपूर्विका तु कार्यप्रवृत्तिः । अतो वास्तव एव । तद्वन्न निवृत्ते वस्तुनि कश्चिदिष्टो नाम विरोधोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य शणान्तरासामर्थ्य ; अतो विरोधोऽपि वास्तव एव' इति च । 'भिन्नव्यापारौ