________________
342
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः कृतितदितरयोः साह्यभेदेन सिद्धेः ।
सर्वार्थमिद्धिः र्ययाभ्यां शक्तयशक्तिसिद्धिरिति चेन ; *शक्तस्यापि करणाकरणयोः सहकारिसन्निध्यसन्निधिप्रयुक्तत्वात् । तदाह-कृतितदितरयोरिति । साह्यं-*सहभावः कदाचित् पुष्कलैस्सहकारिभिस्साह्यं
आनन्ददायिनी शक्तस्यापीति – करणाकरणयोः शक्तितदभावप्रयुक्तत्वाभावान्न शक्तयशक्तिरूपविरुद्धधर्माध्यासप्रसङ्ग इति भावः । सहशब्दस्य धर्म्यवाचकत्वात् तत्र भवप्रत्ययः कथमित्यत्राह --- साह्यामिति । सहशब्दः सहितपरः; तस्य भावस्साह्यं । यद्वा त्रैलोक्यादिवत् स्वार्थिकः । तदेवाह-कदाचिदिति । पुष्कलसहकारिसान्निध्य
भावप्रकाशः व्यतिरेकसाधकमन्यत् प्रमाणं वक्तव्यम् !' इति *शक्तस्यापीति-उक्तं च रनकीर्तिना- 'शक्तोऽपि घटः क्रमिसहकार्यपेक्षया ऋमिकार्य करिष्यति । न चैतद्वक्तव्यं समर्थोऽर्थः स्वरूपेण करोति स्वरूपं च सर्वदाऽस्तीत्यनुपकारिणि सहकारिण्यपेक्षा न युज्यते इति ; सत्यपि स्वरूपेण कारकत्वे सामर्थ्याभावात्कथं करोति ? सहकारिसाकल्यं हि साम
र्थ्यम् ! तद्वैकल्यं चासामर्थ्य । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित् क्षतिः ; तस्य ताभ्यामन्यत्वात्। तस्मात् अर्थस्समर्थोऽपि स्यात् ; न च करोतीति सन्दिग्धव्यातरकः प्रसङ्गहेतुः' इति। * साह्यमिति। एतेन
अथ नापेक्षते नित्यः प्रत्ययान् सहकारिणः ।