________________
सर:] प्रत्यभिज्ञायाः एकवुद्धित्वं तदंशस्य ग्राह्यत्वे आक्षपः तत्र प्रतिवन्दिश्च 333
भावप्रकाशः येन जनितं तन्मनोविज्ञानम् । सर्व चित्तचैत्तानामात्मसंवेदनम् । भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं च इति । अत्र धर्मोत्तराचार्य :—'तदनेनैकसंतानान्तर्भूतयोरेवेन्द्रियज्ञानमनोज्ञानयोर्जन्यजनकभावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति । ततो योगिज्ञानं परसन्तानवर्ति निरस्तम् । यदा चेन्द्रियज्ञानविषयादन्यो मनोविज्ञानस्य तदा गृहतिग्रहणादासञ्जितोऽप्रामाण्यदोषो निरस्तः । यदा चेन्द्रियज्ञानविषयोपादेयभूतः क्षणो गृहीतः तदा इन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसङ्गो निरस्तः । एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिप्यते। व्यापारवति तु चक्षुषि यद्पज्ञानं तत्सर्वं चक्षुराश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि विज्ञानस्य । एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षं न त्वस्य प्रसाधकमस्ति प्रमाणम्' इति । एवं 'भूतस्सद्भुतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्यार्यसत्यानि । भूतार्थस्य भावना पुनःपुनश्चेतसि विनिवेशनम् । भावनायाः प्रकर्षों भाव्यमानर्थाभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसंपूर्ण भवति । यावद्धि स्फुटाभत्वमपरिपूर्ण तावत्तस्य प्रकर्षगतिः । संपूर्ण तु यदा तदा नास्ति प्रकर्षगतिः । ततः संपूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्ताद्यज्ञातं भाव्यमानस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षं । तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामकवद्भाव्यमानस्यार्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् । ताद्धि स्फुटाभम् । स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृहत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानाविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं